________________
उचराप्ययनसूत्रम् पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ॥ ९५ ॥ अहो मया समं माया, मात्राऽपि महती कृता ॥ भर्ता तह. यमेवास्तु, मम किं लज्जयाऽधुना ? ॥९६ ॥ किञ्च खतातमप्येन-मपशंकं भजाम्यथ ।। नर्तनोद्युक्तनतक्या, वद. नावरणेन किम् ? ॥ ९७ ॥ सा विमृश्येति पिनाऽपि, समं रेमे यथारुचि ॥ रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न ॥ ९८ ॥ माता तस्यास्ततः कान्त-वियोगोदनदुःखतः ॥ अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ॥ ९९ ॥ उद्गतेऽपि रवौ विश्वं, विश्वं स्पृशति चाऽऽतपे ॥ प्रबुद्धेऽप्यऽखिले लोके, हले ! जागर्ति नो सुखी ॥१०॥ तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयभावं चा-ऽयगम्येत्युत्तरं ददौ ॥१.१॥ मातस्त्वयैव प्रोकं मे, यद्यक्षं बहु मानयेः ॥ यक्षेण चाहतस्तात--स्तदन्यं तातमेषय ! ॥ १०२ ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः॥ नव मासान् खीयकुक्षी, कष्टेनाऽधारि या मया ॥१०३ ॥ विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना॥ मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ॥१०॥" पूर्ववद्भावनापूर्व-मित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ॥ १०५ ॥ “तथा हि क्वाप्यभूद्रामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ १०६ ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः ॥ प्रवर्य छागयज्ञं च, मुहुस्तत्र चकार सः ॥ १०७ ॥ अयं हि धर्मस्त्राणं मे, परलोके भविष्यति ॥ ध्यायन्निति स यज्ञेषु, छगलानवधीद्बहून् ॥ १०८ ॥ भूदेवः सोऽन्यदा मृत्वा, छांगेष्वेवोदपद्यत ॥ सोऽपि छागः कमावृद्धिं, प्राप्तोऽभूत्पीनभूधनः ॥ १०९ ॥ यज्ञे हन्तुं नीयमानः, स्वपुत्रैरेव सोऽन्यदा ॥ खोपशं तत्तटाकादि, दृष्ट्वा खां जातिमस्मरत् ॥ ११० ॥ मयैव कारितमिदं, ममैवाभूद्विपत्तये ॥ निन्दन्नेवं वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः॥१११॥ तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः ॥ तत्पूर्वभववृत्तान्तं, विज्ञायैवमयोचत ॥ ११२ ॥ खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः ॥ प्रवर्तिता मखाश्चाऽथ, किं “बुबू' कुरुषे पशो ! ॥ ११३ ॥ इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् ॥ खकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ॥ ११४ ॥ तूष्णीकः साधुवाचाऽय-मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ॥ ११५ ॥ किमेष मेपो भगव-नाकर्ण्य भवतां वचः ॥ तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ?॥ ११६ ॥ मुनि गौ भवत्तातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ॥ ११७ ॥ ततो दुःखाबुबुध्यान-मुच्चैः कुर्वन्मयोदितम् ॥ खकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ॥ ११८ ॥ ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो! ॥ विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ॥ ११९ ॥ साधुरूचे समई पः, प्राग्भवे निहितं खयम् ॥ निधि चेहर्शयत्येष, तदा ह्येतद्यथातथम् ॥ १२० ॥ तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतः ॥ छागो गत्वा निधिस्थाने, पादानेणाऽखनद्भुवम् ॥ १२१ ॥ ततस्तत्तनयैर्जात-प्रत्ययैर्यतिसन्निधौ ॥ स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ॥ १२२ ॥ धर्म श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो, देवभूयमविन्दत ॥ १२३ ॥ प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा ॥ तटाकादि व्यधात्तच, तस्याशरणतामगात् ॥ १२४ ॥ एवं भयाऽपि भीतेन, भवन्तः शरणीकृताः॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥” इत्वं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि ॥ न दुर्भावो न्यर्वतिष्टा-ऽसाध्योरोग इवौषधैः॥१२६॥ ततस्तस्याऽप्यलङ्कारान् , सरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्य-स्तृप्यत्यब्धिरिवाम्बुभिः ॥ १२७ ॥ एवं षण्णां कुमाराणा- मात्तैराभरणब्रजैः॥ प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ॥ १२८॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९ ॥ देवोऽप्येवं परीक्षाभि-स्तं प्रणष्टवताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ १३० ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः॥ १३१॥ अजिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता ॥ शासनोडाहकृहुष्ट-साध्वि ! त्वं कुत आगता ? ॥ १३२ ॥ सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशकं, प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥रे सूरे ! सर्पपाभानि, परच्छिद्राणि पश्यसि ?॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ १३४ ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ खयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ॥ १३५ ॥ यदि च त्वं मन्यसे खं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण स-क्रियमुप्रविहारिणम् ॥१३६॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ १३७ ॥ तयेत्युहाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः ॥ ददर्श सैन्यमागच्छत् , कृतं तेनैर नाकिना॥१३८॥ भयोद्धान्तस्ततः सूरिः,