________________
॥ ५८॥
उत्तराष्पयनवम् गात्रं मे, जातं शरणतो भयम् ! ॥ ५३॥" इत्युक्त्वाख्यानकं तस्सो-पनयं च प्रकाश्य सः ॥ तस्खौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥ ५४ ॥
ततोऽप्यऽऽर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् , सूरिरुघमवानऽभूत् ॥ ५५ ॥ सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयनिजम् ॥ ५६॥ “एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः ॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५७॥ लवनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् १ ॥ ५८ ॥ सोऽवादीयो मरुज्यष्ठा-ऽऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽहं मे, जातं हि शरणाद्भयम् ! ॥५९॥" आख्यानमित्युदित्वा त-दावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ॥ ६॥ ___ भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ॥ ६१ ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौ, खाभिख्याख्यानपूर्वकम् ॥ ६२॥ “द्रुमे पुष्पफलाकीर्णे, कापि केऽप्यऽवसन् खगाः ॥ वृक्षो वयं नः शरण-मिति विश्रब्धचेतसः ॥ ६३ ॥ तेषां च वसतां तत्र, निराबाधमथान्यदा ॥ अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे ॥ ६४॥ इतश्च तस्य वृक्षस्य, पार्थात्काऽप्युद्गता लता ॥ तं तरं परिवेष्ट्योचै-रारुरोह द्रुमोपरि ॥६५॥ तया च लतयाऽन्येद्यु-विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् ॥६६॥ ततस्ते विहगाः खीया-पत्यविध्वंसदःखिताः ॥ कर्यन्तस्तमलं प्रोच-रित्थमाहर्महमिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे ॥ अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ॥ ६८ ॥” इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या-ऽप्याददे भूषणानि सः ॥ ६९॥
ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥वीक्ष्य तस्याप्यलङ्कारान् , सोऽभूदाच्छेत्तुमुत्सुकः ॥७०॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीवीन्द्रियादीनां, चतुर्णा तत्र सम्भवात् ॥ ७१ ॥ “तथा हि नगरे कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितैलोकै-रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानानगरा-द्विद्विषोऽपीडयन भृशम ॥७३॥परं नः शरणं भावी-त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यऽभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निनन्ति च द्विषः ॥ तत्त्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५॥" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ॥ ७६ ॥ “नगरे क्वाप्यभूद्भपः, स च दुष्टो निजैनरैः॥ खीय एव पुरे चौर्य, सर्वदाऽचीकरभृशम् ॥ ७७॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ ७८ ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः॥ यात पौराः ! पुरात्तस्मा-जातं हि शरणाद्भयम् ॥ ७९ ॥" कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचगस्तं, जनं दुष्ट इव ग्रहः ! ॥ ८० ॥ ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः ॥ “तथा हि काप्यभूदामे, द्विजन्मा कोऽपि कामुकः॥८१॥ तस्य चासीत्सुता मध्य- वयोभूषितभूघना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाजनम् ॥ ८२ ॥ अन्यदा तां सुतां वीक्ष्य, रिंसुः स द्विजोऽभवत् ॥ न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ ८३ ॥ तां च कामयमानोऽपि, न सिषेवे स लज्जया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ ८४ ॥ तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना ॥ अप्राक्षीक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ ८५ ॥ ततः सा व्यमृशक्षा, योनां नाप्नुयादयम् ॥ तदावश्यं विपघेत, द्राग् दशा दशमीं गतः ॥ ८६ ॥ विधायाकार्यमप्येत-तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ॥ ८७ ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ॥ अहं केनाऽप्युपायन, करिष्यामि तवेहितम् ॥८८॥ तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी ॥ पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाद्यते ॥ ८९॥ कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं ब्रजेः ॥ त्वां भोक्तुमुघतं तत्रा-ऽऽगतं यक्षं च मानयेः ॥ ९० ॥ हे पुत्रि ! तत्रोधोतं च, मा काषीयक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोषमुपयास्यति ॥९१॥ तच्छुत्वा मातृविस्रम्भा, खीचक्रे साऽपि तद्वचः ॥ विसन्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ॥ ९२ ॥ रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ ९३ ॥ तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तयक्षमन्दिरम् ॥ तां चोपभुज्य निःशंकं, रतश्रान्तोऽखपीत्सुखम् ॥ ९४ ॥ शरावसम्पुटाहीप- माविष्कृत्याऽथ कौतुकात् ॥