________________
उत्तराप्ययनसूत्रम्
॥५७॥ लोके असति कः, क्लिश्यते कुशलो मुधा ! ॥१२॥ विमृश्येति खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः ॥ उत्प्रप्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ १३ ॥ अत्रान्तरेऽवधिज्ञाना-त्वरूपं खगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! ॥ १४ ॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः! ॥ १५ ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! ॥ १६ ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ १७॥ तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥१९॥ ततः स सूरिस्तन्नाट्यं,प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २० ॥ शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् ॥ दिव्यानुभावान्नाज्ञासी-तन्नाट्यं स विलोकयन् ॥२१॥ तस्मिन्नत्येऽथ देवेन, संहते सोऽचलत्पुरः॥क्षणमेकं शुभं नायं, दृष्टं दिष्ट्येति भावयन् ॥ २२ ॥ स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् ॥ षट् जीवकायसंज्ञान् षट् , विदधे बालकान् वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनन्यहम्॥२४॥ एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥ २५॥ विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे ! मुश्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स तं शावं, जग्राह गलकन्दले ॥ सोऽभकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, बिभ्य
पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः॥ २८॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ २९ ॥ बालं मां दीनतां प्राप्त, पाहि पाहि प्रभो ! ततः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ ३० ॥ यतः-" विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धरइ ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥ ३१ ॥” इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लम-स्तावच्छावः पुनर्जगी ॥ ३२ ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद तहि, सोप्याख्यत् श्रूयतामिति ॥ ३३ ॥
प्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत् ॥ ३४ ॥ यत्प्रसादाद्वलिं भिक्षा, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥ ३५ ॥ यथा साजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! ॥ ३६ ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः ॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ ३७ ॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ ३८ ॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् !॥ ३९॥ ___ ततः पुरो ब्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः॥ बालकं प्राग्वदद्राक्षी- दप्कायाख्यं द्वितीयकम् ॥४०॥ तसिंस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ॥४१॥ “एकस्तालाचरश्चारु-कथाकथनकोविदः ॥ पाटलाह्वोऽभवद्भरि-सुभाषितरसहदः॥४२॥ सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः ॥ तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयैः ॥४३॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वायमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् ॥ ४४ ॥ समाकोभयाकर्णि-सकर्णस्तजनोदितम् ॥ श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ॥ ४५ ॥ येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः॥ तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ॥ ४६॥" कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्थाप्याभरणव्रजम् ॥४७॥
ततोऽप्यने व्रजस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि-स्तद्भूषाग्रहणोद्यतः ॥४८॥ ततः सोऽपि शिशुः प्राग्व-प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥ ४९ ॥ "क्काप्याश्रमे तापसोडभू-त्सवेदा वह्निपूजकः॥ तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक्॥५०॥ यमहं मधुसर्पिभ्या, तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ॥५१॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च