________________
उत्तराप्ययनसूत्रम् सेवधि ततः ॥ तस्य प्रियवयस्यस्यो-पकारं कर्तुमुद्यतः॥१०॥ मित्रप्रियायै तं स्तम्भ, दर्शयन् करसंज्ञया॥ धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः॥११॥[युग्मम् ] इदमीरक्तच्च ताहकू, पश्य जातं हि कीदृशम् ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभूद्गुरोः ॥ १२ ॥ इदमीग् द्रव्यजातं, खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-द्रमणं तस्य तारशम् ! ॥ १३ ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता-स्तदाकयेत्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तसथा ॥ पादानैः पावयन्नुर्वी, विहरन्नन्यतो ययौ ॥ १६ ॥ आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे पद ॥ साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ॥ १८ ॥ किंत्वेनं स्तम्भमसकृ-दर्शयन्नित्यभाषत ॥ इदमीर तच ताक्, पश्य जातं हि कीदृशम् ! ॥ १९ ॥ धनदेवस्तदाका -ऽध्यासीदेवं कुशाग्रधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते !॥२०॥ तनूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित्॥ध्यात्वेत्युदखनत् स्तम्भ, निधिश्चाविरभून्महान् ॥२१॥ धनदेवो निधेस्तस्मा-नानाविधमणिब्रजम् ॥ आसाद्यापेतदारियो, बभूव धनदोपमः॥२२॥ भगवान् शकटालनन्दनर्षि-नं यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः॥ २३॥ इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ॥ २१॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाहमूलम्-णस्थि नूणं परे लोए, इडिवावि तवस्सिणो।अदुवा वंचिओ म्हित्ति,इइ भिक्खू न चिंतए॥४४॥
व्याख्या- नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनच प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । ऋद्धिर्वा तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेर्मिन्नक्रमत्वात्तपखिनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । 'अदुवत्ति' अथवा वञ्चितोऽस्त्रि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन इत्येतद्भिक्षुर्न चिन्तयेत् । यत आत्मीय आत्मा खप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण खयमनुभवात् , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति। ऋद्धयोsप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात् , उक्तञ्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः ॥ अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः॥१॥" तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-" सोहु तवो कायबो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायति॥१॥ इति सूत्रार्थः ॥४४॥
-तथामूलम्-अभूजिणा अस्थि जिणा, अदुवा वि भविस्सई।मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥४५॥
व्याख्या-अभूवन्नासन् जिनाः केवलिनः, 'अथिति' निपातः ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुने चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥ निदर्शनं चात्र, तथाहि
वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ॥ १॥ यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ॥ २ ॥ देवभावंगतेनाऽऽशु, देयं मे टनं त्वया ॥ इत्यक्तेऽपि बहनां तै-नागात्कोऽपि दिवं गतः॥३॥ अथाऽन्यदाखशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमूचुः सनिर्बन्धं, गुरवो गद्दाक्षरम् ॥ ४॥ खर्गगतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ॥५॥ मया हि बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः नेहममुं स्मरन् ॥ ६ ॥ तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् ॥ नाययौ प्रथमोत्पन्न- सुरकार्यैर्विलम्बितः॥ ७॥ तस्मिननागते सद्यो, विपर्यस्तमना गुरुः ॥ एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ॥ ८॥ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः ॥ विहितानशनाः सम्य-ग्मया निर्यामिताः स्वयम् ॥९॥मद्वाचं प्रतिपन्नाश्च, विनेया मम ये मृताः॥ स्नेहलेष्वपि तेष्वेको-ऽप्याऽऽगान्नो कथमन्यथा ? ॥ १०॥ [युग्मम् ] तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥ मोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ॥ ११॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः ॥ पर