________________
उतराध्ययनसूत्रम्
।। ५५ ।।
न्वहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽहि विश्रमम् ॥ ३ ॥ रात्रावपि च तैरेव प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चिदपि सूरिर्बभाज सः ॥ ४ ॥ अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां च, तिष्ठतिस्म यथासुखम् ॥ ५ ॥ ततः स सूरिः सततो- जागरेणाऽतिखेदितः ॥ उद्विमचित्तो नितरा - मित्यन्येद्युरचिन्तयत् ! ॥ ६ ॥ अहो ! सपुण्यो माता, भुक्त्वा खपिति यः सुखम् ! || अहं त्वधन्यो निद्रातुं न शक्नोमि निशास्वपि ! ॥ ७ ॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ॥ ८ ॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्विन्तो बहुभोजनोऽत्रपना नक्तं दिवा शायैकः ॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ! ॥ ९ ॥” दुर्ज्यानेनामुना ज्ञानावरणीय मुपार्ज्य सः ॥ विपन्नस्तदनालोच्य सुरोऽभूद्रतपालनात् ॥ १० ॥ ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः ॥ आभीरपल्यामाभीर - खामिनस्तनयोऽभवत् ॥ ११ ॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामेकां, पितृभ्यामुदवाह्यत ॥ १२ ॥ तस्य सार्धं तया सौख्यं, भुआनस्य सुताऽजनि ॥ भद्राभिधा स्वीयरूप - तृणीकृतसुराङ्गना ! ॥ १३ ॥ सा कन्यका क्रमान्नव्य - तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण - चेतोह रिणवागुराः ! ॥ १४ ॥ न वेषो नाप्युपस्कार - स्तादृशोऽभूत्तथापि सा ॥ स्वरूपेणैव सर्वेषा - माचकर्ष दृशो विशाम् ॥ १५ ॥ तस्याः पिताऽन्यदा सर्पिर्विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ॥ १६ ॥ अनांसि सर्पिः सम्पूर्णा - न्यादायान्येऽपि भूरयः ॥ गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ १७ ॥ तस्याभीरस्य शकटं, भद्रा खयमखेटयत् ॥ शकटानां खेटने सा, झतीवनिपुणाऽभवत् ॥ १८ ॥ ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिदृक्षया ॥ उत्पथे प्रेरयन् क्षिप्र - मनांसि खमनांसि च ॥ १९ ॥ स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः ॥ अखेटयन् खशकटां - स्तदीयशकटान्तिके ॥ २० ॥ विश्चैककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ॥ २१ ॥ यथातथा खेटयन्तः शकटानऽखिलानऽपि ॥ सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ॥ २२ ॥ [ युग्मम् ] ततः खिन्ना व्यधुस्तस्याः संज्ञामशकटेति ते ॥ असावशकटातात, इति तज्जनकस्य च ॥ २३ ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् ॥ तस्यै दत्वा च सर्वस्वं प्रात्राजीत्साधुसन्निधौ ॥ २४ ॥ स मुनि स्वगुरोः पार्श्वे, विधिपूर्वकमार्हतम् ॥ पठति स्म श्रुतं याव - दुत्तराध्ययनत्रयम् ॥ २५ ॥ चतुर्थाध्ययने तस्यो - हिष्टेऽसंखयसंज्ञके ॥ कर्मोदियाय तज्ज्ञाना - वरणं प्राग्भवार्जितम् ॥ २६ ॥ आचाम्लयुगलेन द्वौ दिवसौ जग्मतुः परम् || एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ॥ २७ ॥ ततोऽवादीद्गुरुस्तं चेत्, प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया - त्यनुज्ञा क्रियते तदा ॥ २८ ॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति कीदृशः १ ॥ गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ २९ ॥ ततः शिष्योऽभ्यधादस्या - नुज्ञया मेऽधुना कृतम् ! || आचाम्लानि करिष्येऽहं यावत्पठनमन्वहम् ! ॥ ३० ॥ इत्युक्त्वा स प्रतिदिनं कुर्वन्नाचाम्लसत्तपः ॥ अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ॥ ३१ ॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु स्वकीयं कर्मैव, निनिन्द ज्ञानवाधकम् ॥ ३२ ॥ एवं द्वादशभिर्वर्षै - स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ ३३ ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाच्च केवलज्ञानं प्राप्य निर्वृत्तिमासदत् ! ॥ ३४ ॥ इति साधुवरो विसोढ - वानयमज्ञानपरीषहं यथा ॥ अनगारपुरन्दरैः प- रैरपि सः स तथा क्षमापरैः ॥ ३५ ॥ इत्यज्ञानपरीषहस हने ऽश कटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि
चतुर्दशानां पूर्वाणां पारश्वा महामुनिः ॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥१॥ तत्र चाभूत्प्रभोस्तस्य प्राग्वयस्योऽतिवत्सलः ॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ २ ॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः खयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥ ३ ॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥ ४ ॥ धनदेवः कुत्र यातः १, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥ ५ ॥ खामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥ ६ ॥ ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ ७ ॥ भम कान्तोऽथ वाणिज्य - हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ ८ ॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत्, स्थूलभद्रगुरुर्गुणी ॥ ९ ॥ स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं