________________
उत्तराप्ययनसूत्रम् तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत् , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥तं तह आलोएजा, मायामयविप्पमुको उ ॥१॥” इत्याद्यागममनसरन यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥११॥अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाहमूलम्-मा गलिअस्सुब कसं, वयणमिच्छे पुणो पुणो । कसंव दटुमाइण्णे, पावगं परिवजए ॥ १२॥
व्याख्या-मा निषेधे गल्यश्च इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलपेत् पुनः पुनर्वारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशियेणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्त्तते, माभूगुरोर्वचनायास इति सूत्रार्थः ॥ १२ ॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाहमूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा ।
चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयंपि ॥ १३ ॥ व्याख्या-अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलंबितकारित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावाद्गुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, तत्कथासंप्रदायश्चायम्उजयिन्यां पुरि सात्रो-द्याने नंदनसन्निभे ॥ चंडरुद्राभिधः सूरिः सगच्छः समवासरत् ॥१॥ ऊनाधिकक्रि
च्छीयतपखिनाम् ॥ दर्श दर्श स चाकुप्यत् . प्रकृत्याप्यतिरोषणः ॥२॥ भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् ॥ परं रोषातिरेकान्मे, खहितं न हि जायते ॥३॥ ध्यात्वेति सूरिरेकांते, तस्थौ सद्ध्यानहेतवे। तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥ ४ ॥ [ युग्मम् ] इतश्चोजयिनीवासी, व्यवहारिसुतो युवा ॥ आगात्कुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५॥ साधून् दृष्ट्वा परीहास- पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे,धर्म ब्रूत सुखाकरम् ॥ ६ ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे ॥ ततो भूयः स निर्ग्रथान् , सोपहासमभाषत ॥ ७ ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽह गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि- तारकं दत्त मे व्रतम् ॥८॥ धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तघृष्यतामसौ सम्यक्, चिंतपित्वेति ते जगुः ॥ ९ ॥ गुरोरधीना न वयं, खयं दीक्षादि दद्महे ॥ तदाश्रय व्रताय त्व- मस्मद्गुरुमितः स्थितम् ॥ १० ॥ श्रुत्वेति सवयस्योऽथ, सोऽब्रजत्सूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ ११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाजयोः॥ तत्प्रव्राजय मां खामि-स्तिष्ठामि ससुखं यथा ॥ १२ ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ सूरिजगी व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३ ॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा खबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषण्णास्त-द्वयस्थास्तमथाभ्यधुः ॥ मित्र ! सद्यः पलायख, धाम यामो वयं यथा ॥ १५ ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ॥ कथं गच्छाम्यहं गेहं, खवाचा खीकृतव्रतः ॥१६॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना ॥ सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७ ॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् ॥ जहाति घुमणिं को हि, विनायासमुपस्थितम् ॥ १८ ॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत ॥ यथास्थानं ततो जग्मु- स्तद्वयस्था विषादिनः ॥ १९ ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २० ॥ गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यजनैः ॥ ज्ञायते तद् द्वयोरेवा-ऽऽवयोर्गमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्यानं विलोकय ॥ यथा रजन्यां