________________
उचराप्ययनसूत्रम् गच्छामः, सोऽप्यालोक्य तमाययौ ॥ २२ ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ २३ ॥ अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः ॥ वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान सः ॥ २५ ॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः॥ न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिंतयत् ॥ २६ ॥ खगच्छमध्ये ससुखं, तिष्ठतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता हहा ! ॥ २७ ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः के ऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थावादिना गुरोः पीडा, माभूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९॥ तस्यैवं ब्रजतः
निधेः॥ महात्मनः समुत्पदे, निशायामेव केवलम् ॥ ३०॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्समस्तकः ॥ ३१ ॥ ततः शांतरसाचांत-खांतः सूरिरचिंतयत् ॥ अहो । नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥ ३२ ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङ्मनोदेह-वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रनजितस्यापि, रोषदोषांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम! ॥ ३४ ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् ॥ परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम्॥३५॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः सुविनेयाः ॥ ३६ ॥ इति श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ १३ ॥ अथ गुरुचित्तानुवृत्तेरुपायमाहमूलम्-नापुट्ठो वागरे किंचि, पुट्टो वा नालिअंवदे॥कोहं असच्चं कुग्विजा,धारिजा पिअमप्पिअं ॥१४॥
व्याख्या- नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, पृष्टो वा नालीकमनृतं वदेत्, कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांत:- तथाहि कुत्रचिद्रामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ १॥ ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविक्षुरपि भ्रातृ-घातकं हंसि नो कुतः ॥ २ ॥ बलिनो खलसायंते, वैरशुद्ध्यै न कर्हिचित् ॥ न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः !॥ ३॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना ॥ जीवनाहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ॥४॥ प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ॥ ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य कंपितः ॥ ५॥ हन्यंते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्ष्यत ॥ ६ ॥ सापि तं दीनतां प्राप्त, प्रेक्ष्योत्पन्न कृपाऽलपत् ॥ आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥७॥ यतः-"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् ॥ रोगिणः पंगुमुख्यांश्च, नैव नंति महाशयाः ॥८॥" पुत्रः प्रोवाच मातर्मे, रोषः स्यात्सफलः कथम्?॥ सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ॥ ९॥ इति मातृगिरा जातो- पशान्तिस्तं मुमोच सः॥ तौ नत्या क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥१०॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे दिल कोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ ११ ॥ इति क्रोधासत्यीकरणे कुलपुत्रकथा ॥ तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत् , प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि
पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥१॥ तच्छान्तये च भूपेन, डिडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥२॥ [युग्मम् ] शमयामो वयं खामि-नशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥३॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं, भूतं सद्यः शिवकरम् ॥ ४॥ तचातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोपतः॥५॥ तत्प्रेक्ष्याधोमुखं तिष्ठे-द्योऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥६॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥७॥ तचातिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ ८॥ गायनरीनृतन्मुंचदट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥९॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः ॥ दूषयेद्यश्च तन्मौलि-द्रुतं भिधेत सप्तधा ॥ १० ॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥