________________
उत्तराप्ययनसूत्रम् । गदास्तस्य विलीयंते, वातोबूता इवांबुदाः ॥ ११ ॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् ॥ तृतीयोऽथावदद्वाज-नस्ति भूतं ममापि हि ॥ १२ ॥ कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवा ऽऽमांस्तथा ॥ १३ ॥ ततो राज्ञा प्रदत्ताज्ञः, स मांत्रिकशिरोमणिः॥ अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे॥१४॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ॥ अपूजि वस्त्रभूषाद्यै-लॊकैश्च सकलैरपि ॥ १५॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ॥ १६ ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः ॥ १४ ॥ ननु कोपाद्यसत्यकरणादिना कि मात्मन एव दमनमुपदिश्यते ? न परस्येत्यत्रोच्यतेमूलम्-अप्पा चेव दमेअबो, अप्पा हु खल्लु दुइमो॥अप्पा दंतो सुही होइ, आसं लोए परत्थ य ॥१५॥
व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माहुईमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः । किं पुनरात्मदमने फलमित्याह-आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्रामुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहि
सन्निवेशे क्काप्यभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा-ऽन्यदा सार्थेन संयुताः ॥ १॥ धारासारैः सुघासारै- वमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ २॥ युक्तं वर्षासु नास्माकं, विहर्तुमिति साधवः ॥ वसतिं याचितुं चौर-पत्योः पार्थ तयोर्ययुः ॥ ३॥ ततस्तद्दर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् ॥ भव्यौ पप्रच्छतुः पूज्याः ! के हेतुं यूयमागताः १ ॥ ४ ॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५ ॥ दत्वाथ वसतिं तेषां, तौ व्यजिज्ञपतामिति ॥ ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ ६ ॥ तेऽभ्यधुर्धाम्नि नैकस्मिन् , भिक्षामादद्महे वयम् ॥ किन्तु माधुकरी वृत्तिं, कुर्मः सर्वेषु वेश्मसु ॥७॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८॥ यतः-"उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ-दायिना प्रददे न किम् ? ॥ ९ ॥सुरर्द्धिः सुकुलोत्पत्ति- भोगलब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ १० ॥” इत्याकर्ण्य विशेषात्ती, संतुष्टौ भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ॥ ११॥ चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ॥ १२ ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यहोषा, भूयां सः स्युनिशाशने ॥१३॥ यदाहुः- “मेधां पिपीलिका हंति, यूका कुर्याजलोदरम् ॥ कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंडं च, वितनोति गलव्यथाम् ॥ व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥१५॥ विलमस्तु गले नालः, सरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥१६ ॥ उलूककाकमार्जारगृप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायते रात्रिभोजनात् ॥ १७॥ वाचंयमानां तौ वाच-मित्याकर्ण्य वितेनतुः ॥ निशाहारपरिहारं, विजाहः साधवोऽप्यथ ॥१८॥ ततस्तौ तद्वतं सम्यक, पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा चौर्य-कृते चौरव्रजैर्वृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायंतो, महिषं जारेककम् ॥ २०॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ २१॥ भय ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् ॥ २२ ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ २३ ॥ दैवात्तथैव सञ्चिन्त्य, प्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ॥२४॥ तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यैः साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ प्रतमंगभयान्नवा-भुआतां सत्वशालिनौ ॥ २६॥ अन्ये त्वन्योन्यदत्तेन. मयेन पिशितेन च ॥ विषय मृत्वा दुर्गतिमैयरुः ॥ २७॥ ततस्तान्निधनं प्राप्ता-निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ स्वीकृतप्रतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा-दकस्मान्मरणं भवेत् ॥ २९ ॥ भाषयो भविष्यचे-निशामुक्तिव्रतं हितम् ॥ आवामप्येतदाहारा-तत्प्राप्स्यावो दशामिमाम् ॥ ३० ॥ महोपका
न भुक्तन,