________________
उतराष्यमनसूत्रम्
॥९॥
रिणो नूनं ज्ञानिनस्ते महर्षयः ॥ प्रत्याख्यानमिदं दत्त - मावयोर्यैः शुभावहम् ॥ ३१ ॥ ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म - कर्मणाऽत्र परत्र च ॥ ३२ ॥ इत्थं रसज्ञादमनादपीमा - वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना खं दमयंस्तु सौख्यं, यदश्रुते किं किल तत्र वाच्यम् ॥ ३३ ॥ इत्यात्मदमने भ्रातुइयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५ ॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याह - मूलम् - वरं मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ॥ १६ ॥
ब्याख्या--वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं प्राहितोऽसंयमचेष्टातो न्यावर्तितः, केनेत्याह-संयमेन पंचाश्वविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोति' आर्षत्वामितः खेदितः, कैरित्याह-बंधनैर्ब्रधादिरचितैर्मयूरबंधाद्यैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहस्ती
तथाचटव्यामेकस्यां, हस्तियूथमभून्महत् ॥ तत्स्वामी च बभूवैकः, सिंधुरो भूधरोपमः ॥ १ ॥ प्रवृद्धः कलमः कोऽपि, माहन्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा - नवधीत्स तु दुष्टधीः ॥ २ ॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३ ॥ तस्मात्तद्रक्षणोपायं करोमीति विसृश्य सा ॥ खञ्जयमाना दंभेन, शनैर्यथादपासरत् ॥ ४ ॥ प्रतीक्षमाणं यूथेशं, घटीहर वासरैः ॥ द्वित्रैर्मिलंती सा तस्य, विखं चोदपादयत् ॥ ५ ॥ प्रसूतिकाले त्वासन्ने - ऽपश्यत्सा कञ्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य विश्वस्ता कलमं शुभम् ॥ ६ ॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, स्वनंदनमदीधयत् ॥ ७ ॥ सुग्धत्वमधुराकारं, कलभं मुनयोऽपि तम् ॥ सलीलं लालयामासुः, खपुत्रमिव वत्सलाः ॥ ८ ॥ शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि सः ॥ सहर्षिपुत्रकैः सेकं चकाराश्रमभूरुहान् ॥ ९ ॥ तं सेचनकनामानं तापसाः प्रोचिरे ततः ॥ क्रमाच्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥ १० ॥ अटन्नटव्यां तथूथं द्विपः सोऽपश्यदन्यदा । अरीरमच संजाता-नुरागास्तत्करेणुकाः ॥ ११ ॥ तं दृष्ट्वाऽमर्षणो यूथ - नाथस्तं प्रत्यधावत । वृद्धं निहत्य तं यूथ - खामी सेचनकोऽभवत् ॥ १२ ॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिर्चितथम् ॥ १३ ॥ कृतघ्नः स गजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥ भजन्ति खाश्रयं दन्ता - बलाः प्रायः खला इव ॥ १४ ॥ [ युग्मम् ] अस्माभिः पोषितेनाऽपि द्विपेनाऽनेन हा ! वयम् ॥ उपद्रुतास्तत्किमपि, दर्शयामोऽस्य तत्फलम् ॥ १५॥ ध्यात्वेति तापसाः कोपा - गत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ १६ ॥ [ युग्गम् ] प्रभो ! सेचनकाङ्क्षानः, सर्वलक्षणलक्षितः ॥ भद्रजातिर्वनेऽस्माकं विद्यते गन्धसिन्धुरः ॥ १७ ॥ पृथिव्यां रत्नभूसोऽयं, तवैवाऽईति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं प्रहितुमगाइनम् ॥ १८ ॥ उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दंतिनम् ॥ आनीय खपुरेऽबना - दालाने शृंखलागणैः ॥ १९ ॥ ततः स्वीयवशायूथ - वियोगातुरचेतसम् ॥ अरुन्तुदैर्वचोभिस्तं, निनिंदुरिति तापसाः ॥ २० ॥ रे ! कृतघ्न 1 क १ तद्वीर्य, शौण्डीर्य चाधुना तब ॥ फलमादबज्ञाया, इदमाजन्म भुज्यताम् ! ॥ २१ ॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्भिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रति तापसान् ॥ २२ ॥ हतप्रतिहतान् कुर्व - स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव लुमान् ॥ २३ ॥ पुनस्तद्बहणायाऽगा - तद्वनं श्रेणिको नृपः ॥ तदेत्यऽवधिनाऽज्ञासी-द्वजाधिष्टायिका सुरी ॥ २४ ॥ सिंधुरोऽसावस्य वश्यो - ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वधालं, वाक्यैः पीयूष पेशलैः ॥ २५ ॥ भूयांसो भाषिनो बत्स 1, स्वयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै - रन्यथा त्वं दमिष्यसे ॥ २६ ॥ तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट - स्तस्याच बहुधा व्यधात् ॥ २७ ॥ स्वयं दांत इति प्रेम, तत्राधाद्भूधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधाद्वृत्तिं च भूयसीम् ॥ २८ ॥ दांतः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिर्जरां परस्तु नो तामिति दम्यतां खयम् ॥ २९ ॥ इति सेचनककरिकथा || तदेवं स्वयमेव खात्मा दमनीय इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाहमूलम् - पडिणीअं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि ॥१७॥
-
व्याख्या - प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिजानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, दिवा रहसि एकांते 'णेवन्ति' नैव अत्र एवकारः "शत्रोरापे गुणा प्राशा, दोषा वाच्या गुरोरपि" इति कुमता