________________
॥१०॥
उत्तराप्ययनसूत्रम् पोहार्थः । कुर्याद्विदध्यात् , कदाचिदपि परुषमाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाहमूलम्-ण पक्खओ ण पुरओ, णेव किञ्चाण पिट्टओ। ण जुंजे अरुणा ऊरु, सयणे णो पडिस्सुणे॥१८॥
व्याख्या-न पक्षतो दक्षिणादिपार्थमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात्, पाठनादि समये च गुरोरपि सन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्माहोणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य, तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनवप्रसंगात् , उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न खीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येयेदमित्यादि वदेत्, किन्तु गुरुवचःश्रषणानन्तरं तत्कालमेव कृतांजलिगुरुपाश्रमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथामूलम्--णेव पल्हत्थिअं कुजा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिठे गुरुणंतिए ॥ १९ ॥ __ व्याख्या-नैव पर्यस्तिकांजानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा वाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा पादौ प्रसारयेद्वापि नैवेतीहापि योज्यम् , अत्र वा शब्दः समुच्चये, अपि शब्दस्तु इतस्ततोऽपि नैव निक्षिपेदिति दर्शनार्थः। अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तुचितप्रदेश एव, अन्यथा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिढे गुरुं सया ॥२०॥
व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसत् गुरु धर्माचार्यादिक सदेति सूत्रार्थः ॥२०॥ तथामूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥
व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत् , कदाचिदपि, व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यबवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाहमूलम्-आसणगओण पुच्छिज्जा, णेव सिज्जागओ कया।आगम्मुकुडुओ संतो,पुच्छिज्जा पंजलीउडो॥२२॥
व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैय शय्यागतः संस्तारकस्थितस्तथाविधावस्खा विनेति गम्यते,कदाचिबहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्थानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्थमेस्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ २२॥ ईशस शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ २३ ॥
न्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सत्रार्थोमयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस खयं दीक्षितस्योपसंपन्नस वा न्यारणीयात्कथयत्, यथा येन प्रकारेण श्रुतमाकार्णितं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थः॥ २३ ॥ पुनर्विनेयस्य वागविनयमाहमूलम्-मुसं परिहरे भिक्खू, ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ व्याख्या-मृषां असत्यं भूतनिहवादिकं परिहरेत् , “धर्महानिरविभासो, देहार्थव्यसनं तथा ॥ असत्यमाषिणां