________________
उत्तराध्ययनसूत्रम्
॥ ११ ॥
निंदा, दुर्गतिश्वोपजायते ॥ १ ॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणीं प्रस्तावाद्वाणीं गमिष्याम एवेत्यादिनिश्वयात्मिकां वदेत् भाषेत, किं बहुना १ भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत्, मायां च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्चमूलम् - ण लविज पुट्टो सावजं, ण णिरठ्ठण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५ ॥
व्याख्या - न लपेन्नयदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थ निष्प्रयोजनं अभिधेयशून्यं वा, यथा - " एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशृंगधनुर्द्धरः ॥ १ ॥” इति । तथा न नैव मर्मगं मर्मवाचकं 'त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थ वा अन्यार्थे, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह
मूलम् - समरेसु अगारेसु, संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिट्ठे ण संलवे ॥ २६ ॥
व्याख्या - समरेषु लोहकारशालासु उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिपु गृहहयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत्, न संलपेन्न तथैव सह संभाषं कुर्यात्, अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुह्यति ॥ १ ॥” इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाहमूलम् - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥
व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति शेषः मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सुत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् १ येनैवमुच्यत इत्याहमूलम् - अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ॥२८॥
व्याख्या- अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाह
मूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९ ॥
व्याख्या - हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मर्म्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मादवार्जवादिकरमपि, क्षांत्यादिहेतुत्वाद्भुर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह
1
मूलम् - आसणे उवचिठिज्जा, अणुचे अक्कुए थिरे । अप्पुट्ठाई गिरुट्ठाइ, णिसीइज्जप्पकुकुर ॥ ३० ॥ व्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत्, उपविशेत्, अनुचे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवत्किंचिच्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्वले, अन्यथा सत्वविराधनासंभवात् । इद्द्शेऽप्यास ने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं बिना नोत्थानशीलः, निषीदेत् आसीत 'अप्पकुकुरत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणभ्रूभ्रमणाचसचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥३०॥ संप्रत्येषण समितिविषयं विनयमाह -
मूलम्-कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे॥३१॥ ब्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं