________________
॥ १२॥
उत्तराप्ययनरत्रम् भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलामेऽल्पलामे वा अतिलामार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवयं विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेषणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् "कालंमि कीरमाणं, किसिकम्मं बहुफल जहा होइ ॥ इस सबधि किरिआ, णिणिकालंमि विण्णा ॥१॥" इति सूत्रार्यः ॥३१॥ मिया निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिट्टेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भक्खए॥३२॥
न्याख्या-परिपाट्यां पंक्त्यां मुंजानमानवसंबंधिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यहा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्वतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबन पतद्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा पवेषयित्वा अनेन च गवेषणोक्ता, प्रासैषणामाह-मितं परिमितं, अमितभोजने हि खाध्यायविधातादिबहुदोषसंभवात् , कालेन “णमोकारेण पारिता" इत्याद्यागमोक्तप्रस्तावेन अद्भुताविलंबितरूपेण वा भक्षयेझुंजीतेति सूत्रार्थः ॥ ३३ ॥ भिक्षाचर्या च कुर्वता पूर्वागतान्यभिक्षुकसंभषे यत्कार्य तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ। एगो चिहिज भत्तहा, लंघिआतं णडकमे ॥३३॥
न्याख्या-'गाइदूरति' विभक्तिव्यत्ययान्नातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धघसंभवाच, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिषणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थाना 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे तस् , ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किंतु असौभिक्षुर्भिक्षुनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः। एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं वयं वा क्षुधामसहिष्णोः पुनर्ब्रमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्तमेव विधिमाहमूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ। फासुअं परकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥
न्याख्या-नात्युचे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात् , दायकापायसंभवाच । यथा नात्युचो द्रव्यत उच्चैःकृतकंधरो भावतचाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाध किमपि लब्धमिति दैन्यवान् , वा शब्द उभयत्रापि समुच्चये। तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसन्मातिदूरयोहि यथायोगं जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थे कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् खीकुर्यात् , संयतो बतिरितिसूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाहमूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं ॥ ३५॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततच अल्पप्राणे अपस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिपीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्थतः कटकुळ्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचमे दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधुर्भुजीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचब"कसकस. का'दिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र पाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिटिए सुलहत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्छु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं