________________
उत्तराप्ययनसूत्रम् शाकपत्रादेस्तिक्तत्वादि, यद्वा सुदृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं सुष्टु निष्ठा रसप्रकर्षात्मिकां गतं, सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलखादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावा बचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः प्रतिकृतं, सुपकं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदमेस धनं चौराथैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, सुनिष्ठितोऽयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवधं तु सुकृतमनेन धर्मध्यानादि, सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं खेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्पात्राजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्नुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्वेत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोयेत्स्यात्तदशेयन्नाहमूलम्-रमए पंडिए सासं, हयं भई व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ __ व्याख्या-रमते अभिरतिमान् भवति, पंडितान विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावहं वाहकोऽश्रदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , सहि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यथमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरुशिक्षणे बालस्वाशयमाहमूलम्-खड्डआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिहित्ति मण्णइ॥३८॥
व्याख्या-खड्काः टकरा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दंडादिघाता मे, अयंभावः- खड्कादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अन्यव-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्थमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥३८॥ विनीताध्यवसायमाहमूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ॥पावदिही उअप्पाणं, सासं दासित्तिमण्णइ ॥३९॥
व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञाति खजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वखमाहमूलम्–ण कोवए आयरियं, अप्पाणंपिण कोवए ॥ बुद्धोवघाईण सिआ, ण सिया टोत्तगवेसए॥४०॥ __ व्याख्या-न कोपयेन कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुमिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्थान भवेत् उदाहरणं चात्र, तथाहि- गच्छे कापि पुराऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः॥१॥चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं, पुरे काप्यवतस्थिरे ॥२॥ सत्खेतेषु मुनीन्द्रेषु, जिनशासनभानुषु ॥ तीर्थ सनाथमस्तीति, चिन्तयन्तो महाधियः ॥३॥ तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरौषधैश्च तान् ॥ ४ ॥ [ युग्मम् ] गुरुकर्मभराकान्ता, निःनेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥५॥ अस्माभिः पालनीयोऽयं, कियश्चिरमजङ्गमः ॥ स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ॥ ६ ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा षयम् ॥ ७ ॥ विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ॥ ८॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥९॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः ॥ भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ॥१०॥ अकिंचना वयं तत्किं, कुर्मो