________________
॥१४॥
उत्तराप्ययनसूत्रम् दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥ ११॥ गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः ॥ सूरियोग्यं न जगृहु-Pहिदत्ताशनादिकम् ॥ १२ ॥ तद्राहणार्थ चात्यर्थ-माग्रहे श्रावकैः कृते ॥ ते प्रोचुर्गुरवो नेदं, प्रणीतं भुजतेऽधुना ॥ १३ ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि गतस्पृहाः ॥ १४ ॥ तच्छुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्थमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ १५॥ जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! ॥ युष्माभिः शासनं जैनं, भाति वेश्मेव दीपकैः ॥ १६ ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः १ ॥ अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः॥१७॥ निर्वेदहेतुरेतेषा-महं भावीयपि खयम् ॥ न चिन्तनीयं स्वप्नेऽपि, भगवद्भिर्युगोत्तमैः ॥ १८ ॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीङ्गितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ २०॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणै-रेषां निर्वेदहेतुभिः ॥ २१ ॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ २२ ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियच्चिरम् ॥ २३॥ तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः॥ २४ ॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवाद, परत्र दुःखं च गुरूपघातात् ॥ २५॥ इति गुरूपघातिकुशिष्यकथा ॥ तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति सूत्रार्थः ॥ ४० ॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याहमूलम्-आयरिशं कुविणच्चा, पत्तिएण पसायए॥ विज्झविज पंजलीउडो, वइज्ज ण पुणत्ति अ॥४१॥
व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात्, कथमिसाह-'विज्झविजत्ति' विध्यापयेत् कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राअलिपुटः कृताञ्जलिः, इत्थं कायिक मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइज्जत्ति' अग्रेतनचकारस्य भिन्नक्रमस्खेह योगात् वदेच्च ब्रूयाच किमित्याह-न पुनरिति, अयं भावः-खामिन् ! प्रमादाचरितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेचेति सूत्रार्थः ॥४१॥ अथ यथा गुरोः कोप एव नोत्पद्यते तथाहमूलम्-धम्मजिअं च ववहारं, बुद्धेहीयरिअं सया ॥ तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥४२॥
व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिर्मुमुक्षुक्रियारूपः बुद्धैतितत्त्वैराचरितः सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गह) अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न सादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ ४२ ॥ किम्बहुनामूलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ॥ तं परिगिज्झ वायाए, कम्मुणा उववायए॥४३॥ __ व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिप्रहार्थः, तत् मनोगतादि गुरुकृत्यं परिगृवाङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तनिष्पादनात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ॥ ४३॥ सचैवं विनीततया यादृक् स्यात्तदाहमूलम्-वित्ते अचोइए णिच्चं, खिप्पं हवइ सुचोइए ॥ जहोवइदं सुकयं, किच्चाई कुबइ सया ॥४४॥
व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति'अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्त्तते इत्यध्याहारः, नित्यं सदा न तु कदाचिदेवेति भावः, न चायं खयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्थात्, किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोमनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥४४॥ अथोपसंहर्तुमाहमूलम्-णच्चा णमइ मेहावी, लोए कित्ती से जायइ॥हवइ किच्चाण सरणं, भूआणंजगइ जहा॥४५॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कत्यकरणं प्रति प्रहीभवति मेधावी मर्यादावर्ती.