________________
उत्तराध्ययनसूत्रम्
स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत् , मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेबहिः क्रियते, इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौश्शील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयतिमूलम्-कणकुंडगं चइत्ताणं, विटं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥ ५॥ ___ व्याख्या-कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकरतं त्यक्त्वा विष्टां पुरीषं भुक्ते, शूकरो गर्ताशूकरो यथेति गम्यते. एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निविवेको दुःशीले रमते, इति सूत्रार्थः ॥ ५॥ उक्तमुपसंहृत्य कृत्यमुपदिशतिमूलम्-सुणिआभावं साणस्स, सूअरस्स नरस्स याविणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो॥६॥ _ व्याख्या-श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्सर्यदुक्तम्-"विणया नाणं नाणाओ, दंसणं दंसणाओ चरणं च ॥ चरणाहितो: मोक्खो, मोक्खे सुक्खं निराबाहं ॥ १॥ इति सूत्रार्थः ॥ ६॥ यतश्चैवं ततः किमित्याहमूलम्-तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्धपुत्तनिआगही, न निक्कसिज्जइ कण्हुइ॥७॥
व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्रामुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-घुदानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्विद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ॥ ७॥ कथं पुनर्विनयो विधेय इत्याशयेनाहमूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए सया।अजुत्ताणि सिक्खिजा, निरहाणि उ वजए॥८॥
व्याख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमूलम्-अणुसासिओ न कुप्पिज्जा, खंति सेविज पंडिए।खुड्डेहिं सह संसगि, हासं कीडंच वजए ॥९॥
व्याख्या-अनुशिष्टः कदाचित् परुषोक्त्यापि, शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याहशान्ति परुषभाषणादिसहनात्मिका सेवेत, पंडितो बुद्धिमान् , तथा 'खुडेहिंति' क्षुद्रैर्बालैः शीलहीनैः पार्थस्थादिभिर्वा सह समं 'संसग्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्राथेः॥९॥ पुनरन्यथा विनयमेवाहमूलम्-मा य चंडालिअंकासी, बहुअं मा य आलवे।कालेण य अहिजित्ता, तओझाएज एगगो॥१०॥
व्याख्या-मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्धशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि- . त्वा पृच्छाधुपलक्षणं चैतत् , ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ॥ १० ॥ इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअंकटु, न निण्हविज कयाइवि।कडं कडित्ति भासिज्जा, अकडंणो कडित्ति अ॥११॥ ___ व्याख्या-'आहच' कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निहुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलजादिभिरकृ