________________
॥४ ॥
उत्तराप्ययनसूत्रम्। कृत्यनाशी भवान्नतु ॥ ८५ ॥ इत्युक्तः सिंधुरस्ताभ्यां, स्वामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा-त्ती बलेनोदतारयत् ॥८६॥ स्वयं तु तस्यां गायां, दत्वा झंपा विपद्य च ॥ आद्येऽगान्नरके धैर्य-महो तस्य पशोरपि ! ॥ ८७॥ तद्वीक्ष्य सानुतापौ तौ, कुमाराविति दध्यतुः॥क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् !॥८॥ कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः॥ अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो !॥ ८९॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥९०॥ (युग्मम् )
तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रवज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥९१॥ गुणरवं तपस्तत्त्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू-विहलस्त्वपराजिते ॥१२॥ गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ॥ ९३॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमसून्, भृगुपातादिना ध्रुवम् ॥९४॥ तथापि तां पुरी भक्त-मनीशे श्रेणिकात्मजे ॥क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥ ९५॥ “समणे जदि कूलवालए, मागधि गणिअं गमिस्सए ॥राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ॥ ९६॥" तन्निशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे त्वं कूलवालकम् ॥ ९७ ॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ॥ ९८ ॥ तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः ॥ ९९ ॥ नंतुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य- पादा दिष्ट्याऽत्र वन्दिताः ॥१०॥ मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् ॥ तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ॥१॥ तस्यादान्मिश्रितद्रव्यान् , सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार- स्तस्यासीदतिदुस्सहः ॥ २॥ ततः सा तत्र तद्वैयावृत्यदंभेन तस्थुषी ॥ मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ॥३॥ उद्वर्त्तनादिना खांग-स्पर्श चाचीकरन्मुहुः॥ भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनैः ।। ४ ॥ तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः ॥ मुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् ॥५॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ॥ यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ॥ ६ ॥ तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ॥ ७ ॥ महा. त्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्हणोपायं, विधेहि धिषणानिधे !॥ ८॥ ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥९॥ दध्यौ च नूनमस्यास्ति, प्रतिष्ठालममुत्तमम् ॥ अभंगा तन्महिनासौ, नगरी ननु वर्त्तते ॥ १०॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ॥ अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ॥११॥ वद दैवज्ञ ! वैशाल्या,रोधो यास्यत्यसौ कदा ? ॥ खिन्नाः स्मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ १२ ॥ मुदितः स ततोऽवादीत्, पापपंकैकशूकरः॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं व १ वः ॥१३॥ सलोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् ॥ तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि ॥ १४ ॥प्रोक्तो धूर्तेन तेनेति, बालवद्वालेिशो जनः ॥ तं स्तूपं भक्तुमारेभे, धूर्तेः को न हि वंच्यते ॥ १५॥ स्तूपे च भक्तुमारग्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः॥ १६ ॥ ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कूणिकोऽविक्षत् , पुरी सबलवाहनः ॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्क्रियाः॥ चेटको न्यपतत् कृपे, बद्धाऽयःपुत्रिकां गले॥१८॥ तदा तत्रासनास्थैया-दागत्य धरणाधिपः॥ साधर्मिक तमादाय, निनाय भवने निजे ॥ १९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥२०॥ इतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-तदा सत्यकिखेचरः॥२१॥ मातामहप्रजां सर्वा, लुंख्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्री, द्रुतमुत्पाव्य विधया॥ २२॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः खपुरी ययौ ॥२३॥ कूलवालकनामा तु, मृत्वागानरकं कुधीः॥उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥२४॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः॥२५॥ इतिकूलपालककथा, इति सूत्रार्थः ॥३॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निक्कसिज्जइ सवसो। एवं दुस्सील पडिणीए, मुहरी निक्कसिजइ ॥४॥
व्याख्या-यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ण्यते, 'सघसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो “हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति