________________
।। ५२ ।।
त्काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं १ यतोsलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-- रसेषु मधुरादिषु नाऽनुगृज्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सत्क्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रब्रजितः ! किं मया स्तोकलोकपूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात्, 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोष, न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ॥ उदाहरणञ्चात्र, तथाहि
उत्तराध्ययनस्त्रम्
बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी - त्स व्रजन्तमधो मुनिम् ॥ १ ॥ साधोरस्य शिरस्यङ्घ्रि, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् स खपादमलम्बयत् ॥ २ ॥ पुरोहितेन तेनैवं न्यक्कारे विहितेऽपि सः ॥ मनसाऽपि मुनिर्नैवा - कुप्यच्छान्तरसोदधिः ! ॥ ३ ॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वैवाऽसौ दुरात्मास्य - व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेदनीयोऽङ्घ्रि-र्मयोपायेन केनचित् ॥ ५ ॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः, खां प्रतिज्ञामभाषत ॥ ६ ॥ गुरुर्जगाद सत्कार - न्यक्कारौ हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः सयात्रेव महामते ! ॥ ७ ॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकर्ण्य जगौ श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ॥ ८ ॥ किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ ९ ॥ किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते ॥ तदा सर्वेऽप्यऽमी लोका, निःशुकास्तां वितन्वते ॥ १० ॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् १ ॥ तत्पूर्तेस्तदुपायं मे, किञ्चिद्भूत मुनीश्वराः ! ॥ ११ ॥ सुरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ १२ ॥ श्रेष्ठी स्माह गृहं नव्यं कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशाहे, सतत्रं भोजयिष्यति ॥ १३ ॥ तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ तदाकर्ण्याऽवदत्सूरिस्ताक्षिण्योपरोधतः ॥ १४ ॥ पुरोधसो नव्यसौधे, भुक्त्यर्थं सपरिच्छदम् ॥ प्रविशन्तं विशामीशं करे धृत्वा स्वपाणिना ॥ १५ ॥ प्रासाद एष पतती-त्युदित्वा चापसारयेः ॥ तदा चाहं तदागारं पातयिष्यामि विद्यया ॥ १६ ॥ [ युग्मम् ] तन्निशम्य तथाऽकार्षी- दिभ्योऽपतच्च तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ - मित्यूचे तुष्टमानसः ॥ १७ ॥ युष्मान्हन्तुमुपायोsय - मनेन विहितोऽभवत् ॥ न चेन्नव्योऽप्यसौ कस्मा - दकस्मान्निलयः पतेत् १ ॥ १८ ॥ ततः क्रुद्धो नृपो बद्धा र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठि- स्तद्विदध्या इति ब्रुवन् ॥ १९ ॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः ॥ श्रेष्ठीन्द्रकीले तत्पादं छेत्तुकामो न्यधात्ततः ॥ २० ॥ पुरोधाः कान्दिशीकोऽथा - ऽत्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख त्वं महामते ! ॥ २१ ॥ नैवं मुनिजनावज्ञां, करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ २२ ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः ! ॥ २३ ॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः ॥ श्रेष्ठी छित्त्वा च तत्पाद, खां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सर्वैर्ब्रतिभिः पुरोध - ऽवज्ञातवाचंयमवद्विषाः ॥ २५ ॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ १९ ॥
इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् उक्तञ्च - " तिण्हंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओत्ति” अत्र 'तिण्हति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीपहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेकौ स्यातामिति प्रज्ञापरीषहमाह
,
मूलम् —से नूणं मए पूर्व, कम्मानाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥ ४० ॥
व्याख्या—से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरूपाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - " ज्ञानस्य ज्ञानिनां चैव निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्व, ज्ञानघ्नं कर्म बध्यते ॥ १ ॥ ” मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - “शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ १ ॥” कुत एतदित्याह - येन हेतुनाहं नाभि