________________
उचराप्ययनसूत्रम् व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी स्रानाकरणरूपमर्यादावर्ती, पङ्केन वा खेदामलरूपेण, रजसा वा पांशुना, 'प्रिंसुवत्ति' ग्रीष्मे, या शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि खेदः, खेदाचपङ्करजसी, ततश्च क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत् , कथं कदा वा मे मलापगमेन सातं भावीतिन प्रलपेदिति सूत्रार्थः॥३६॥किं तर्हि कुर्यादित्याहमूलम्-वेएज निजरापेही, आरिअं धम्ममणुत्तरं॥जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७॥ ___ व्याख्या-वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचाररहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तम, प्रपन्न इति शेषः । अथ सामोक्तमप्यर्थ विशेषाद्वयक्तीकुर्वन्नाहजावेत्यादि-यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुजावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदाथ स्नानादि कुर्यात् , यतः-"न शक्यं निर्मलीकर्तु, गावं सानशतैरपि ॥ अश्रान्तमिव स्रोतोभि- नवभिर्मलमुद्रित् ॥ १॥ इति सूत्रार्थः ॥ ३७ ॥ कथानकञ्चात्र, तथाहि___ अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः ॥ स च श्राद्धः सर्वपण्यैर्व्यवहारं विनिर्ममे ॥ १॥ यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया!॥२॥ तस्य हद्देऽन्यदा जग्मु-प्रीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥३॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥ ४ ॥ मलगन्धं तमाघाय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः ॥ ५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् ॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया ॥ मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥७॥ ततश्चयुतश्च कौशाम्बी-पुर्या सोऽभून्महेभ्यभूः ॥ प्रावाजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥ ८॥ तस्याऽन्यदा तन्निर्ग्रन्थ-मलगर्दासमर्जितम् ॥ कर्मोदियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥९॥ शटत्सादिकुणप-गन्धादप्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढुं कोऽप्यऽभूत्प्रभुः ॥ १० ॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्रसर्पता ! ॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्न्धेनाऽभ्यभूयत ॥ १२ ॥ तदीयदेहदौर्गन्ध्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३ ॥ मुने ! त्वदङ्गदौर्गन्ध्या-दुड्डाहो जायते भृशम् ! ॥ तत्त्वया वसतावेव, स्थेयं गम्यं वहिर्न हि ॥१४॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधान्निशि ॥ १५ ॥ ततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ १६ ॥ ततः सुरी सुगन्धं तं, तथा चक्रे यथा जनः ॥ सर्वस्तदङ्गमाघाय, नैषीत्कस्तूरिकामपि ! ॥ १७ ॥ अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यमावितः ॥ सर्वदा तिष्ठतीत्युच्चै-रुड्डाहः पुनरप्यभूत् ॥ १८ ॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं खाभाविकं तस्य, शरीरे विदधे सुरी ॥ १९ ॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुजरै-ने विधेयं विधिवेदिभिस्तथा ॥ २०॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥ १८॥
जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं॥जे ताइंपडिसेवंति, न तेर्सि पीहए मुणी ॥३८॥
व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, खामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्गृहे मिक्षा गृहीतव्येत्यादिरूपं, ये इति खयूथ्याः परतीर्थिका वा, तान्यमिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाथैः सक्रियन्ते इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किञ्चमूलम्-अणुक्कसाई अप्पिच्छे अण्णाएसी अलोलुए॥रसेसुनाणुगिज्झिज्जा,नाणुतप्पेज पण्णवं ॥३९॥ व्याख्या-अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न वा तदर्थमातापनादि छन कुरुते, न च तत्र गृद्धिं विधत्ते । अत एषाल्पेच्छो, धर्मोपकरणप्रासिमात्राभिलाषी, न स