________________
उत्तराप्ययनसूत्रम् जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ ४० ॥ आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यतेमूलम्-अह पच्छा उइजति, कम्मानाणफला कडा। एवमासासि अप्पाणं, नमा कम्मविवागयं ॥४१॥
व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यलो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय खस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥ ४१ ॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षऽपि नोत्सेको विधेय इत्यपि दृश्यं, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥ इति" निदर्शनश्चात्र, तथाहि__ उज्जयिन्यां पुरि खर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ १॥ बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः !॥ २॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ ३॥ तथापि शिक्षयामासु-स्तानाचार्याः सुशिक्षया ॥ शुनो लाङ्गूलवत्ते तु, तत्यजुर्वक्रतां न हि ! ॥ ४ ॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मारणादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ ५॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ॥६॥ विहाय तदमन् क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय. परमार्थ न्यवेदयन ॥७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तय॑ दर्शयेः !॥ ८॥ एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः ॥ पार्थे सागरसूरेस्ते, वर्णभूमौ खयं ययुः ॥ १० ॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥ ११॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यर्णे, तानपृच्छच्च सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः १ ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ! ॥ १३ ॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ॥ १४ ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः ॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५ ॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥१६॥
इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥ १७ ॥ पप्रच्छुरिति सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्येवं, स्माह तेषा हितेच्छया ॥ अहो! प्रमादिनो यूयं विनयादिगुणोज्झिताः! ॥१९॥ दीक्षिताः शिक्षित राद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ॥ २०॥ प्रवर्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः ॥ तत्का युष्मादृशैः शिष्यै-रर्थसिद्धिर्भवेद्गुरोः १ ॥ २१॥ किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो! ॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः १ ॥ २२॥ उक्ताः शय्यातरेणेति, लजितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ॥ २३ ॥ गुरोवियुक्ता हि वयं, निराधारा गतहियः ॥ शोभां नानुमहे मौले-भ्रष्टा इव शिरोरुहाः ॥२४॥ न च तुभ्यमनुक्त्वा ते, ब्रजेयुः काऽपि सूरयः ! ॥ दुर्विनीता न च प्राग्व-द्भविष्यामः पुनर्व
। २५॥ तत्प्रसद्य त्वमस्माकं, हि तत्पाविर्ता दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुमेहे वयम् ! ॥२६॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगी गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७ ॥ सुवर्णभूमि प्रति तान् , प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छज्जनो मार्गे, कोऽसौ व्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः १ ॥ तेऽवदन् वेड्यदो नाहं, जनोत्या तु श्रुतं मया ॥ ३० ॥ इतश्च कालकाचार्यशिष्यास्ते निखिला अपि ॥ गवेषयन्तः खगुरू-नाजग्मुः सागरान्तिकम् ॥ ३१ ॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति तेऽखिलाः ॥ ३२ ॥ आगताः सन्ति किमिह, केऽप्या