________________
॥४८॥
उत्तराप्ययनसूत्रम् यामे तूत्थाप्य, सत्यकं दारुकोऽखपीत् ॥ तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ॥ ८॥ बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात् ॥९॥ अशेत तुर्यप्रहरे,हरिमुत्थाप्य सात्वतः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥ १०॥ सुप्तानेतानहं प्मातु- मागतोऽस्मि बुभुक्षितः ॥ विष्णुःप्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ॥ ११ ॥ ततः पिशाचगोपीशी, नियुद्धं चक्रतुर्भृशम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥ १२॥ यथा यथोथैर्युयुधे, स पिशाचस्तथा तथा ॥ अहो! तरखी मलोय-मित्यतुष्यदृशं हरिः ॥ १३ ॥ कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघु ढं बभूव सः ॥१४॥ ततः प्रक्षिप्य तं नाभौ, ररक्ष मधुसूदनः ॥ तांस्त्रीन्प्रातरपश्यच, घृष्टकूपरजानुकान् ! ॥ १५॥ यूयमेवं केन घृष्टाः १, इत्यपृच्छच्च तान्हरिः ॥ ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा ॥ १६ ॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोय-मायातो योऽभवन्निशि ॥१७॥ अनेन युद्धयमानेय-धुष्माभिश्चकुपे भृशम् ॥ तदसी ववृधे यस्मा-कोपः कोपेन वर्धते ॥ १८॥ वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् ॥ वृद्धिं गता हि दोषाय, द्विदकोपामिविषद्रुमाः ॥ १९॥ मया तु कुर्वता युद्ध, शान्तत्वेनोत्कटोऽप्यऽयम् ॥ प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ॥ २०॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते॥त्रयोऽपि विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥२१॥ कोपो यथा क्लुप्तपिशाचमूर्ति-मुरारिणा शान्ततया विजिग्ये ॥ जयन्त्यऽलाभं मुनयोऽपि तद्वत् , पूर्वोक्तसूत्रार्थविचिन्तनेन ॥ २२ ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनञ्चात्र, तथाहि___ मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-कृषिः पाराशरामिधः ॥ १॥ ग्रामीणैः सोऽन्यदा लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥ २ ॥ क्षुधितांस्तृषितान् श्रांतान , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ ३॥ किन्तु तैर्व्याकुलैर्गोभिः, कर्षकैश्च पृथक् पृथक् ॥ एकैकवारं खक्षेत्रे-ऽवाहयत् हलषदशतीम् ॥ ४ ॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपाय मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः॥ ५ ॥द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽम कुक्षिजो ढण्ढणाभिधः ॥ ६॥ [युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या-धरितामरसुन्दरीः ॥ ७॥ श्रीनेमिस्वामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ॥ ८॥ अधीयानः श्रुतं सार्ध, स्वामिना विजहार सः॥ तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः॥ द्वारकायां पुरि खर्ग-लक्ष्मीजित्वरसंपदि ॥ १० ॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥११॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री- नेमिं पप्रच्छ ढण्ढणः॥१२॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ १३ ॥ लामं मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् ॥ अभिगृति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥ १४ ॥ भिक्षा चालभमानः स, नोद्विवेज न वा जनम् ।' निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ १५॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः॥ एषु खामिविनेयेषु, को नु दुष्करकारकः ॥ १७ ॥ उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः ! ॥ सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः !॥१८॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ १९॥ ततो भक्तिभरो
माञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विमो !॥ २०॥ जिनो जगौ स भि. क्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगर्यां प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ॥ २१ ॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुनहत् ॥ २२ ॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ॥ २३ ॥ ततोऽतिमुदितो विष्णु-भक्तिभावोलसन्मनाः ॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ २४ ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहार च, पप्रच्छ रचिताजलिः ॥ २५ ॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्त्र, श्रद्धा. शुद्धाशयो ददौ ॥ २७ ॥ ढण्ढणोऽथ जिनाम्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा