________________
॥ ४९ ॥
उतराध्ययनस्त्रम् बिकम् १ || २८ ॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्वं तत्तेऽदान्मोदकान् धनी ! ॥ २९ ॥ तच्छ्रुत्वा रागरोबादि - विहीनो ढण्ढणो मुनिः ॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥३०॥ गत्वा शुद्धस्थण्डिलोय, मोदकांस्तानमूर्च्छितः । परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥ ३१ ॥ [ युग्मम् ] दध्यौ चैवमहो ! दाढ, कर्मणां बज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्त्तिनिधानवत् ॥ ३२ ॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम - मन्यथा कर्तुमीश्वराः । ॥ ३३ ॥ ध्यायन्नित्यादि सज्यान - क्षीणदुष्कर्मसंहतिः ॥ महर्षिटेण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४ ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥ सर्वकर्मक्षयं कृत्वा क्रमान्भुक्तिमवाप सः ॥ ३५ ॥ इत्यलाभविषयं परीषहं, ढण्ढणर्षिरधिसोढवान् यथा ॥ सात मुनिवरैस्तथापरै - रप्यसौ शिवसुखातितत्परैः ॥ ३६ ॥ इत्यलाभपरीषहे टण्ढणर्षिकथा ॥ १५ ॥
अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीषहमाह -
मूलम् - णश्चा उपइअं दुक्खं, वेअणाए दुहट्टिए | अदीणो ठाव पण्णं, पुट्ठो तत्थ हि आसए॥३२॥
व्याख्या ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं दुःखयतीति दुःखो ज्वरादिरोगस्तं वेदनया स्फोटपृष्ठग्रहादिपीडया दुःखेनार्तः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत्, दुःखार्तितत्वेन चलती स्थिरीकुर्यात्, प्रज्ञां स्वकर्मफलमेवेदमिति तत्त्वधियं, 'पुट्ठोत्ति' अपेर्लुतत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञास्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह
मूलम् — गिच्छं नाभिनंदिज्जा, संविक्खन्त गवेसए ॥ एअं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥
व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । 'संचिक्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् न तु कूजितकर्करायितादि कुर्यात्, आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः किमित्येवमत आह- 'एअंति' एतदनन्तरमभिधीयमानं 'खुसि' वस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् उपलक्षणत्वाज्ञानुमन्येत प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंब सेवी समुवेइ मुक्खं ॥ १ ॥ " इति सूत्रार्थः ॥ ३१ ॥ दृष्टान्तश्चात्र, तथाहि-
अभूद्भूर्भूरिभृतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ॥ १ ॥ कालाहां सोऽन्यदा बेश्यां दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर - स्मरापस्मारविह्वलः ! ॥ २ ॥ भुञ्जनस्य तया भोगां - स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥ ३ ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ ४ ॥ शब्दोऽसौ श्रूयते केषां १, फेरूणामिति तेऽवदन् ॥ कुमारोऽथाऽब्रवीदेतान् श्रानयत काननात् ॥ ५ ॥ तेऽप्येकं जंबुकं बद्धाऽऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमारोsपि, वारं वारं जघान तम् ॥ ६ ॥ स 'खि' खीति ध्वनिं चक्रे, इन्यमानो यथा यथा ॥ तमाकर्ण्य कुमारोन्त-र्जहर्षोचैस्तथा तथा ॥ ७ ॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत । अकामनिर्जरायोगा- धन्तरत्वमवाप च ॥ ८ ॥
इतश्च स क्ष्मापसुतः, साधूनामन्तिकेऽन्यदा । श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥ प्रतिपन्नोऽन्यदैकाकिविहारप्रतिमां च सः ॥ विइरन्मुद्गरौ लाइ - पुरेऽगागुणसेवधिः ॥ १० ॥ तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः ॥ सुदुःसहव्यथासिन्धु - प्रवर्तनघनाघनः ॥ ११ ॥ सोऽत्यर्थ व्याधिना तेन, पीयमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ १२ ॥ कदा यास्यत्यसौ व्याधि - रित्यपि ध्यातवान्न सः ॥ किन्तु स्वकर्मदोषोऽय - मिति ध्यात्वाऽसहिष्ट तम् ॥ १३ ॥ सत्र चाऽभूत्पुरे श्रीमान्, हतशत्रुर्महीपतिः ॥ कालवैशिकसाघोभ, खसा तस्य महिष्यऽभूत् ॥ १४ ॥ ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्या - ऽमित्रहं चाऽवबुध्य तम् ॥ १५ ॥ अर्शोघ्नमौषधं सार्धं, भिक्षया स्नेहमोहिता ॥ भिक्षार्थमागतायादा तस्मै सोदरसाधवे ॥ १६ ॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त - श्चिन्तयामास सन्मुनिः ॥ १७ ॥ अहो ! अनुपयोगेना - ऽयुक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं यदर्शीजन्तुनाशनम् ॥ १८ ॥ अभि