________________
॥ ४७ ॥
गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८ ॥ पतता तरुणा तेन सुध्यानास्ते हतात्रयः ॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ २३९ ॥ व्रतं वर्षशतं यावत्प्रपाल्य त्रिदिवं गतः ॥ रामोऽथावधिनाऽज्ञासी - तृतीयनरकेऽनुजम् ॥ २४० ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, पुरुत्तरवैक्रियम् ॥ २४९ ॥ मणिद्युतिभिरुद्योतं कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्स्नेहलो रामः परिरभ्यैवमब्रवीत् ॥ २४२ ॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाऽऽगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते १ ॥ २४३ ॥ कृष्णोऽप्युवाच स्वकृत - कर्मदोषोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकर्तु भवेत्प्रभुः ॥ २४४ ॥ ततो रामस्तमात्रष्टुं नरकात्स्नेहमोहितः ॥ द्रुतमुत्पाटयामास, पाणियुग्मेन वालवत् ॥ २४५ ॥ उत्पाटितः स रामेण, वहिस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६ ॥ मां मुञ्च मुञ्च हे भ्रातः !, प्रयासेनामुना कृतम् ॥ त्वया द्युत्पाट्यमानस्य, पीडा मे जायते भृशम् ॥ २४७ ॥ न च कर्मपरीणामो देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥ २४८ ॥ शङ्खचक्रगदाखङ्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं कृत्वा मामअनद्युतिम् ॥ २४९ ॥ आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छ विच्छविम् ॥ २५० ॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे - वस्मन्नाशप्रमोदिषु ॥ २५९ ॥ [ त्रिभिर्विशेषकम् ] तया दुर्दशया जात- तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेश्यावामविनश्वरौ ॥ २५२ ॥ इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः ॥ सर्वत्राऽदर्शयद्रूप - द्वयं कृत्वा तथैव तत् ॥ २५३ ॥ तद्वीक्ष्य विस्मि - तान् लोका - नित्यूचे च स निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ॥ २५४ ॥ उत्पत्तिस्थितिविध्वंस - कारका वयमेव हि ॥ आगच्छाम इह स्वर्गा-त्स्वर्ग यामश्च लीलया ॥ २५५ ॥ अस्माभिर्द्वारकाऽकारि, क्षिप्ता संहृत्य चोदधौ ॥ वयमेव च लोकानां खर्गादिसुखदायकाः ॥ २५६ ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः ॥ अर्ची कृत्वाऽर्चयंस्तेषा - मुदयं च ददौ सुरः ॥ २५७ ॥ लोकोऽखिलो विशेषात्त- त्पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा रामः स्वस्थानमासदत् ॥ २५८ ॥ तस्य रामामरस्य प्रागू, द्वादशाब्दशतायुषः ॥ स्वर्लोके जीवितं जज्ञे, सागराणि दशैव हि ॥ २५९ ॥ ततश्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशार्हतः ॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ २६० ॥ काष्ठादिहारकजनादशनादि गृह्णन्, याज्यापरीपहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि प्रतिगणैर्नियतं विषयः ॥ २६१ ॥ इति याज्यापरीषहे बलभद्रर्षिकथा ॥ १४ ॥
याज्याप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाह
मूलम् — परेसु घास मेसिज्जा, भोअणे परिणिट्टिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज्ज संजए ॥ ३० ॥ व्याख्या- परेषु गृहस्थेषु प्रासं कवलं एपयेद्ववेषयेत्, अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि साध्वर्थे पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः ' पिण्डे आहारे । अलब्धे वा नानुतप्येत, संयतो मुनिः । यथाऽहो ! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चात्तापं न कुर्वीत सूत्रार्थः ॥ ३० ॥ किं विमृश्य नानुतप्येतेत्याह
उत्तराध्ययनसूत्रम्
मूलम् - अज्जेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न तज्जइ ॥३१॥
व्याख्या— अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, 'अपिः' सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिः श्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येद्युरन्यतरेद्युर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि
बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्रपहताः, प्रापुरेकां महाटवीम् ॥ १ ॥ प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः । इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥ २ ॥ सुतेष्वऽन्येष्वाऽऽद्ययामे यामिकं तत्र दारुकम् ॥ पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥ ३ ॥ प्रसिष्ये शयितानेता - नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां तन्नियुद्धं प्रदेहि मे ॥ ४ ॥ ओमित्युक्त्वा दारुकोऽपि तेन साकमयुद्ध्यत ॥ अशक्नुवन् पिशाचं तं जेतुमुच्चैकोप च ॥ ५ ॥ चुकोप दारुकोऽत्यर्थे, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥ ६ ॥ वर्द्धमानेन तेनाभि- भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं यामं, कृच्छ्रेण महताऽत्यगात् ॥ ७ ॥ द्वितीये