________________
॥४६॥
उत्तराप्ययनसूत्रम् संयुतः ॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ १९६ ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारणश्रमणं प्रैषी-तत्पार्थे प्राप्रजवलः ॥ १९७ ॥ तुहिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थदेवोऽपि, तद्रक्षायै तदन्तिके ॥ १९८॥
इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदहत्तकौस्तुभः ॥ १९९ ॥ ततः शोकाम्भोधिमन्नाः, पाण्डवा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुहरेः ॥२०॥ व्रतार्थिनोऽथ तान् ज्ञात्वा, घृतं पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः ॥ २०१ ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः ॥ प्रव्रज्य पाण्डवाश्चकु-र्पोरं साभिग्रहं तपः ॥ २०२ ॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ २०३ ॥ ततस्ते प्रोद्भवहुःखा, आरुख विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥ २०४॥
इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीनं मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २०५॥ सोऽन्यदा प्रविशन् कापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ २०६ ॥ साऽभूयग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बवन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानर्थैककारणम् ! ॥ २०८ ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ २०९ ॥ अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च ॥ तत एव निवृत्त्याऽगा-तुङ्गिकाद्रिशिरोयनम् ॥ २१० ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥ २११ ॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा ! ॥ २१२ ॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्पिस्तु न निर्वदं, लेभे तत्प्रार्थनादपि ॥ २१३ ॥ तितिक्षमाणो रामर्षि-रेवं यायापरीषहम् ॥ सुदुस्तपं तपस्तपे, मासिकादि महाशयः ॥ २१४ ॥ काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन् ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ॥ २१५ ॥ ततस्ते व्यमृशन्नन-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ॥ २१६ ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ॥ २१७ ॥ ध्यात्येति ते वलोपान्ते, ससैन्या युगपद्ययुः ॥ बहून् सिंहांततश्चक्रे, सिद्धार्थस्तत्र भीपणान् ॥ २१८ ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा रामं
इति ख्याति, लोके लेभे ततो बलः॥ २१९॥ स च राममुनिस्तत्र, वने तिष्ठन् कृपोदधिः॥ सिंहादीनां वापदानां, पुरो धर्मकथां व्यधात् ॥ २२० ॥ तया देशनया व्याघ-सिंहाद्याः श्वापदा अपि ॥ बभूवुबहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २२१ ॥ केचिचानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ सक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ॥ २२२ ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे गस्तं सदाऽभजत् ॥ २२३ ॥ स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेपयितु--मरण्येऽ
मऽभमत् ॥ २२४॥ तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान साधुसन्निधौ ॥ स्पृशंस्तदडी शिरसा, प्रेरयामास तं रयात् ॥ २२५ ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना ॥ रामर्पिरपि भिक्षायै, तपः पारणकेष्वऽगात् ॥२२६॥ अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ २२७ ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुजानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ॥२२८॥ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र मिक्षाकृते ययौ ॥ २२९ ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्त
यो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ २३०॥ अहो! अस्य मुनेः क्षान्ति-रहो! रूपमहो! महः ॥ तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ २३१ ॥ अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् ॥ विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ॥ २३२ ॥ आनीयाऽशनपानादि, प्रदातुश्चोपचक्रमे ॥ तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ २३३ ॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वघ्यायदिति शुद्धधीः ॥२३४॥ अहो! अत्युग्रतपसां, निवासोऽसौ महामुनिः॥ अनुग्रहं रथकृत-श्चके खाङ्गेऽपि निर्ममः॥२३५॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥२३६॥ निर्भाग्योऽहं तु सम्प्राप्स-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तसुं मुनेर्दातु-चासमर्थः करोमि किम् ? ॥२३७॥ तदा च रामरथकृ- मृ