________________
॥ ४५ ॥
उतराष्ययनसूत्रम्
य - पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ १५३ ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च तृणसंस्तरे ॥ आवृत्य वाससा खीय- वपुश्चेति व्यचिन्तयत् ॥ १५४ ॥ पुत्रा प्रद्युम्नशास्वाद्या, रुक्मिण्याद्याः स्त्रियश्च मे ॥ धन्या ये प्रात्रजन् पूर्व, धिग्मां तु प्राप्तदुर्दशम् ॥ १५५ ॥ इति ध्यायन् हरिर्घात - जातपीडातिरेकतः ॥ तदैव नष्टसद्भाव - श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्य, मत्यैर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं दुर्दशा मम ! ॥ १५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा । तचेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्यऽहम् ! ॥ १५८ ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ १५९ ॥ रामोऽथ पद्मिनीपत्र - पुटेनाऽऽदाय जीवनम् ॥ आगाहुर्विहगैर्जाता - शंकः कृष्णान्तिके द्रुतम् ॥ १६० ॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीश्च ददर्श श्याममक्षिकाः । ॥ १६९ ॥ भीतस्ततो हली भ्रातृ-मुखाद्वत्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्च्छा-कुलः पृथ्व्यां पपात च ॥ १६२ ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधाद्वलः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ॥ १६३ ॥ इत्थं ततोऽब्रवीच्चाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वैकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४ ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि - प्रमत्तान् हन्ति सत्पुमान् । ॥ १६५ ॥ इत्युच्चैरुच्चरन् दुःख - भरभङ्गुरमानसः ॥ तत्रारण्ये भ्रमत्कृष्णा - ऽन्तिके गत्वाऽरुदच्च सः ॥ १६६ ॥ हा ! यादवकुलोत्तंस !, हा ! समग्रगुणाम्बुधे ! ॥ क्कासि ? त्वं पुण्डरीकाक्ष !, मन्मनोम्भोजभास्कर ! ॥ १६७ ॥ पूर्व हि मां विना स्थातुं नाऽभूः क्षणमपि क्षमः ! ॥ न मेऽधुना तु वचन - मपि दत्से कुतो ? हरे ! ॥ १६८ ॥ मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? ॥ कालक्षेपो ऽयं यद्वा, तब कोपस्य कारणम् ॥ १६९ ॥ कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् ॥ सम्भाषय हरे ! न स्यु - स्त्वारशा हि स्थिरक्रुधः ! ॥ १७० ॥ कदाप्यऽकुपितं महा-ममुं मे प्रियसोदरम् ॥ वनदेव्योऽनुनयत, यूयं मयि कृपालवः ! ॥ १७१ ॥ त्वयि प्रसन्ने सति मे, नैषाऽवस्थाऽपि दुःखदा ॥ रुष्टे तु त्वयि पश्यामि, सर्व शून्यमिदं जगत् ! ॥ १७२ ॥ तत्प्रस समुत्थाय, सलिलं पिब बान्धव ! | अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् ! ॥ १७३ ॥ रामो विलापैरित्याद्यै–स्तां निशामत्यबाहयत् ॥ जजल्प प्रातरप्येय-मुत्तिष्ठोत्तिष्ठ बान्धव ! ॥ १७४ ॥ तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं मोहविमोहितः ॥ आरोप्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ॥ १७५ ॥ इत्थं तस्मिन् भ्रमत्येव, प्रावृट्कालः समाair || अपश्यचाऽवधिज्ञाना - त्तं सिद्धार्थसुरोऽथ सः ॥ १७६ ॥ दध्यौ चैवं नेहरागा-तिरेकात्कुणपं हरेः ॥ भ्रमति स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः ! ॥ १७७ ॥ तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः ॥ रथं कृत्वा मर्त्यरूपो, महाद्रेरुदतारयत् ॥ १७८ ॥ विषमं शैलमुलंघ्य, समे भग्नं च तं रथम् ॥ सन्धातुमुद्यतं देवं तं वीक्ष्येति वलोsaवीत् ॥ १७९ ॥ उल्लंघ्य स्थपुटं शैलं योऽभज्यत समेऽध्वनि ॥ रथं तमक्षतं कर्तुं कथमिच्छसि ? मूढ रे ! ॥ १८० ॥ ततः सुरोऽवदद्युद्ध - सहस्रेषु हतो न यः ॥ स तेऽनुजो यदा जीवे - द्विना जन्यं मृतोऽधुना ॥ १८१ ॥ रथोऽपि मामकीनोऽयं, नूनं सज्जो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्तुमारेभेऽश्मनि पद्मिनीम् ॥ १८२ ॥ तद्वीक्ष्योचे बलो रोहत्यब्जिनी किं दृषद्यपि ॥ सोऽजल्पन्तेऽनुजो जीवे यदा रोहेदियं तदा ॥ १८३ ॥ सुरो भूयः पुरो भूय, दग्धवृक्षं सिषेच सः ॥ बलोऽब्रूताम्बुसेकैः किं, लुष्टदुः स्यात्सपल्लवः १ ॥ १८४ ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा ॥ जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ॥ १८५ ॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः ॥ देवो धेनुशबास्येषु, बलात्क्षेसुं प्रचक्रमे ॥ १८६ ॥ बलस्ततो बभाणैव - मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ १८७ ॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ययम् ॥ एता गावस्तृणैरेभिविष्यन्ति पुनस्तदा ॥ १८८ ॥ अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः ॥ एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः ! ॥ १८९ ॥ ततः सुपर्वा सिद्धार्थ - रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ १९० ॥ आपद्गतं बोधयेर्मा-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं त्वां बोधयितुमागमम् ॥ १९९ ॥ विष्णोर्मृत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वमूत्तत एवाम्भः - कृते त्वयि गते सति ! ॥ १९२ ॥ हरिणा प्रहितो दत्वा - भिज्ञाने कौस्तुभं निजम् ॥ अगाज्जराकुमारस्तु त्वरितं पाण्डवान्तिकम् ॥ १९३ ॥ बलभद्रोऽथ सिद्धार्थ - मालिंग्यैवमभाषत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु १ ॥ १९४ ॥ सिद्धार्थोऽथाऽवदज्ञात- रिदानीं ते विवेकिनः ॥ सर्वसङ्गपरित्यक्ता, परित्रज्यैव युज्यते ! ॥ १९५ ॥ रामस्तत्प्रतिपद्याशु, नाकिना तेन