________________
॥४४॥
उत्तराप्ययनसूत्रम् वलये भूरि-मूल्ये दत्या भवत्पुरे ॥ ११० ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिब्रजन् ॥ ततो यत् स्याद्विधेय त-द्धराधीश ! विधीयताम् ॥ १११ ॥ [युग्मम् ] तच्छुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधाइत्त-कपाट सजितार्गलम् ॥ ११२ ॥ युयुत्सया तमायान्तं, वीक्ष्य श्वेडां व्यधादलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थमारोहञ्च महागजम् ॥ ११३ ॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली॥ रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगागोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुयों च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ ११५ ॥आत्मवैरिन्नरे मूढ !, किमिदं भवता कृतम्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ ११६॥ अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजाता, किञ्चित्तद्भोजनादिकम् ॥ ११७ ॥ ततो विधायाचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-चनं मुसलिकेशयौ ॥ ११८ ॥ सुरापानात्सलवणाऽशनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः ! ॥ ११९ ॥सोऽथाऽवादीद्वलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ॥ १२०॥ रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले ॥ १२१॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्याप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाबलः ॥ १२२ ॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् ॥ तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे! ॥ १२३ ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवातुर्मम दुःखिनः॥ १२४ ॥ अस्ति वः शरणे तस्मा-शुष्माभिर्वनदेवताः!॥ त्रातव्योऽयमिति प्रोचैः, प्रोच्याऽगादम्भसे बलः ॥ १२५ ॥ वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः ॥ व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः॥१२६॥ तथास्थ सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदङ्गितलमर्मणि ॥ १२७ ॥ उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरणाङ्गितले हतः। ॥ १२८॥ नाऽज्ञातगोत्रनामा य-कोऽपि पूर्व हतो मया ! ॥ तगोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ॥ १२९ ॥ निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ॥ १३० ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ १३१ ॥ द्वादशाब्दीबभूवाऽद्य, वसतोत्र बने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः १ ॥ १३२ ॥ तच्छुत्वा विष्णुरित्याख्य-दागच्छागच्छ बान्धव ! ॥ तव भ्राताऽस्म्यहं कृष्णो, यंत्रातुं त्वं वनं श्रितः !॥ १३३ ॥ भ्रातर्द्वादश वर्षाणि, वनवासादिकस्तव ॥ मुधायासोऽभवन्मिथ्या मतेरिव तपस्वतः! ॥ १३४ ॥ तदाकाकुलखांतः-सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ १३५ ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् ॥ प्रजल्पन् हा ! हतोस्मीति, मुमूर्होया पपात च ॥१३६ ॥ कथञ्चिल्लब्धसंज्ञस्तु, जराभूर्विलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्धातरत्र किम् ? ॥ १३७ ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ॥ किं नेमिखामिनो वाणी, सा सवों सूनृताऽभवत् ? ॥ १३८ ॥ कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत ॥ ततः शोकामिसन्तप्तः, प्रोषाचैवं जरासुतः! ॥ १३९ ॥ आतिथ्यं पातुरतिथेः, पापेनाऽदः कृतं मया ॥हा ! व गच्छाम्यहं खास्थ्य-मवाप्स्यामि क वा गतः १ ॥ १४०॥ दुर्दशाम्भोधिममस्य, भ्रातुओतृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥१४१॥ अहं तवैव रक्षायै, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥ १४२ ॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः॥ किमकार्षमिदं कर्म, श्वपचैरपि गर्हितम् ! ॥१४३॥ विधे! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रावहन्तुर्यथा जनः!॥ १४४॥ प्रसद्य सद्यो मातर्मे.देहि मार्ग वसन्धरे!॥ पश्चादपि हि गन्तव्ये, श्वः याम्यधुनैव यत् ! ॥ १४५ ॥ यद्वा नेमिवचः श्रुत्वा-ऽमरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥ १४६ ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ॥ १४७ ॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ १४८ ॥ द्रौपचानयने जात-भपराधं च मदिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥ १४९ ॥ यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्धक्रोधा-द्रामस्त्वां मारयिष्यति ! ॥ १५० ॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः ॥ अगात्कौस्तुममादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ॥ १५१ ॥ गते च तस्मिन् कृष्णोऽणि, शरघातव्यथातुरः ॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ॥ १५२ ॥ अर्हत्सिद्धसदाचा