________________
उपराप्ययनसूत्रम्
॥४३॥ पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरी दयमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ॥ ७० ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वहिसाब टात् ॥ ७१ ॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रथमाकृषतां खयम् ॥७२॥ स्थामाभिराम! हाराम, ! हा महाराज! केशव ! ॥ पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ॥७३॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि-भमाक्षमपि तो रथम् ॥ ७४ ॥ [ युग्मम् ] ततस्तद्रोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तौ चाऽररी पार्णिघातै, रामकृष्णौ बभातुः ॥ ७५॥ तथापि न रथः पङ्क-मनबनिरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीदलाच्युतौ ॥ ७६ ॥ युषां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तत्किं विस्मृतं वां, ? यदधैवं विमुखथः ! ॥ ७७ ॥ तच्छुत्वाऽतिव्याकुलो तौ, पितरोऽप्येवमूचिरे ॥ वत्सी यातं युषां सन्तु, श्रेयांसि युवयोः पुनः ! ॥ ७८ ॥ युषयोर्जीवतोर्मावी, पुनर्यदुकुलोदयः ॥ वयं त्वथ प्रपन्नाम, शरणं नेमितीर्थपम् ॥ ७९ ॥ प्रत्याख्यातस्तथाऽस्मामि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान्, गणपन्तोऽवतस्थिरे ॥ ८० ॥ द्वैपायनामरस्तेषु, ववर्षाप हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१ ॥ __ अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दप-मानां ददृशतुः पुरीम् ॥ ८२ ॥ ज्वलत्पशुजनाक्रन्त-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ ८३ ॥ श्राद्धदेवश्रोत्रियस्य, पहिकुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारका बाष्पा-प्लुताक्षाविति दध्यतुः ॥ ८४ ॥[ युग्मम् ] पुरन्दरधनुष्कल्प-मनिस्यत्वमहो! श्रियाम् ॥ जलबुलुददेश्यं च, जीवितव्यमहो ! विशाम् ॥ ८५ ॥ खमसङ्गमकल्पाच, बन्धुसङ्गा अहो अमी! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ ८६ ॥ यदुक्तं-"धारिजइ इंतो जल-निही वि कल्लोल भिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥ ८७॥” अथोवाच हरिः सर्व-सम्पत्खजनवर्जितौ॥ आवां भ्रातः! क यासावो १, भीतौ यूथच्युतैणवत् ॥८८ ॥ बलोऽवादीत्पाण्डुपुत्राः, सन्ति नः स्निग्धवान्धवाः ॥ तत्पुरी पाण्डुमथुरां, यासावोऽवाच्यवार्द्धिगाम् ॥ ८९ ॥ प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा ॥ गनोत्तरणवेलायां, बेडान्तर्द्धानरोपतः ॥९० ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः॥ दुर्दशायां गमिष्यावा, तत्पार्थे साम्प्रतं कथम् ? ॥ ९१ ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखममिव विप्रियम् ॥ दुष्प्रापमअक्तयो-पकारं विस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश प्रातः !, कर्त्तारो भक्तिमेव ते ॥ श्रुत्वेति सबलः पूर्वी, प्रत्यचालीनरायणः ॥९३॥
इतश्च द्वारकापुर्या, ज्वलन्त्यां कुजवारकः ॥ रामसूनुः खगेहान- मारुयोथैरदोऽवदत् ॥ ९४ ॥ अहं चरमदेहः श्री-नेमिना कथितः पुरा ! ॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि खीकृतव्रतः ॥ ९५ ॥ सा चेत्सत्या विभोर्वाणी,
१ यास्यावोऽपाच्यवार्द्धिमाम् । इति 'ग' संज्ञकपुस्तके ॥ तत्किमध ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलदेहा-जृम्भकास्तमुदक्षिपन् ॥ ९६ ॥ निन्युः पहवदेशस्थ खामिपार्थे च तं सुराः ॥ ततः श्रीनेमिपादान्ते, प्राणाजीत्कुब्जवारकः ॥ ९७ ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं थयुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोव्यस्तु, द्राग्दग्धास्तेन नाकिना ॥ पुरी तु दग्धा षण्मास्या, तदनुलाविताधिना ॥ ९९ ॥ इतश्च पादचारेण, ब्रजन्तौ रामकेशवौ ॥ मार्गायातं हस्ति
जग्मतुः क्रमात् ॥ १०० ॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-पाण्डवैईतवान्धवः ॥१०१॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ॥१०२ ॥ बलोऽब्रवीत्तव कृते, भकार्य नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राप्रमद्वरः ॥ १०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४ ॥ इत्युक्त्वाऽन्तहरिं ध्यायन् , प्राविशत्तत्पुरं बलः ॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ १०५ ॥ अहो । प्रमाणो. पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युर्षलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥१०६ ॥ ते श्रुतद्वारकादाहा, इति । व्यसृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥ १०७ ॥ रामोऽपि मुद्रिकां दत्वा, मोज्यं कान्दविकाच्छुभम् ॥ आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ॥ १०८ ॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्व. तम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः॥ १०९ ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यध दस्युवत् ॥ मुद्रिका