________________
॥४२॥
उत्चराग्ययनसूत्रम् अत्युग्रञ्च तपस्तप्त्वा, षड्भिर्मासैः सुरोऽभवत् ॥ २६ ॥ इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड-स्थिता पक्करसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन वने ॥ तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मधेन, भृत्वा पार्थस्थितां दतिम् ॥ ददौ शाम्बाय तत्पीत्वा, तुष्टः शाम्बोऽपि तं जगौ ॥ २९ ॥ प्राप्त हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! ॥ कादम्बरीकन्दराया-मवापमिति सोऽप्यवक् ॥ ३० ॥ कुमारैः सह दुर्दान्तै-स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरी गत्वा, मुदितस्तां सुरां पपौ॥३१॥ बहोः कालादधिगतां, यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् , क्रीडन्तस्ते कुमारकाः ॥ ३२ ॥ तत्र द्वैपायनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु-मद्योन्मादवशंवदाः ॥ ३३ ॥ अयं हि नेमिना प्रोक्तोऽस्मत्पुरीकुलनाशकः! ॥ तद्धन्यतां हतो खेष, कथं हन्ता पुरीकुले ! ॥ ३४ ॥ वदन्त इति ते सर्वे, चपेटायष्टिमुष्टिभिः॥ निजनुः पादघातैश्च, द्वैपायनमुनि मुहुः ॥ ३५॥ इत्थं हत्वा मृतप्रायं, विधाय धरणीतले ॥ पातयित्वा च ते जग्मुः, कुमारा द्वारकापुरीम् ॥ ३६ ॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ॥ ३७ ॥ अथैषां प्राणभूतानां, किं करोमीति चिन्तयन् १॥ द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः! ॥ ३८॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माधवः ॥ ३९॥ भो महातापस! क्रोधः, परत्राऽत्र च दुःखदः ॥ नैवातः क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ ४० ॥ मद्योन्मादानिर्विवेकै-मन्दज्ञानैश्च मत्सुतैः॥ एमिर्यदपराद्धं त-न्महर्षे! मृष्यतां त्वया ॥४१॥ इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचनै-रथामीभिः कृतं हरे ! ॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हेन्यमानेन निष्ठुरम् ! ॥४३॥ नालीकं नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे॥ तधुवां यातमनौ हि, दीसेऽन्धुखननेन किम् ? ॥४४॥रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः १ ॥ ४५ ॥ अवश्यं भाव्यपाकर्ते, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो वाक्य-मन्यथा स्यात्कथञ्चन ! ॥ ४६ ॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः ॥ प्रसिद्धमासीलोके च, द्वैपायननिदानकम् ॥४७॥ अथाच्युतो द्वितीयेहि, वपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः ॥४८॥ तदाकण्य जनः सवा, जज्ञ धर्मरतो भृशम् ! ॥ तदारवतकाद्री श्री-नेमिश्च समवासरत् ॥४९॥ तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ॥५०॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः ॥ बहवः प्राजन् रुक्मि-ण्याद्याश्च यदुयोषितः ॥५१॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥ ५२ ॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥ ५३ ॥ द्वितीयवारमप्येव-मथविष्णुरघोषयत् ॥ उपस्थितमिदं लोकाः!, द्वैपायनभयं महत् ॥५४॥ तत्कृपासुनतास्तेय-ब्रह्मचर्यापरिग्रहान ॥ यथाशक्ति प्रपद्य तपस्तथा ॥ ५५ ॥ कुरुध्वं देवपूजाच, प्रयत्नेन महीयसा ॥ इत्याकाऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ॥ ५६ ॥ मृत्वा वह्रिकुमारेषू-त्पन्नो द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा, प्राग्वैरं यदुगोचरम् ॥ ५७ ॥ देवपूजातपोनिष्ठपौरायां पुरि तत्र सः॥परं धर्मविशेषेण, नापकर्तुमभूत्प्रभुः ॥ ५८॥ ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरोऽन्तरे ॥ अथेत्थं द्वादशे वर्षे, प्रासे लोको व्यचिन्तयत् ॥ ५९॥ अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तहुस्तपं तपस्त्यक्त्वाऽधुना खैरं रमामहे ! ॥ ६०॥ इति ते क्रीडितुं लमा, मद्यमांसादिसेविनः ॥ द्वैपायनोऽपि तच्छिद्रमासाद्य मुमुदेऽधिकम् ॥ ६१ ॥ द्वारकायां तदाचास-नुत्पाताः क्षयसूचकाः॥ हलचक्रादिरखानि, प्रणेशुः सीरिशाGिणोः ॥ ६२ ॥ ततो विकृत्य संवर्त-बातं द्वैपायनासुरः ॥ काष्ठपत्रतृणव्यूहा-नाहत्याऽपूरयत्पुरीम् ॥ ६३॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ ६४ ॥ द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽनिमदीपयत् ॥ ६५ ॥ द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः ॥ उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ॥ ६६ ॥ वहिना तेन नीरन्ध्रभूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ॥ ६७ ॥ बालवृद्धवधूयुक्ताः, क्रन्दन्तः करुणखरम् ॥ सर्वेप्यन्योन्यसंलमाः, पौरास्तत्रावतस्थिरे ॥ ६८ ॥ [ युग्मम् ] गृहा मणिवर्णमया, व्यलीयन्त क्षणात्तदा ॥
१ इत्थं द्वादश वर्षाणां, प्रान्ते लोको व्यचिन्तयत् । इति 'ग' संज्ञकपुस्तके ॥