________________
उतराष्ययनसूत्रम्
॥ ४१ ॥
॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त- मधाक्षीन्मंक्षु तत्पुरम् ॥ ६० ॥ ततोऽरण्यमभूद्देश- भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य - मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसाधुवरैरवार्य - वीर्यैर्यथा वधपरीपह एष सोढः ! ॥ सास्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ १३ ॥
परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाह -
मूलम् - दुक्करं खलु भो निश्यं, अणगारस्स भिक्खुणो । सबं से जाइअं होई, नत्थि किंपि अजाइअं ॥२८॥ व्याख्या- दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेषं द्योतयति, 'भो' इत्यामन्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः । किं तद्दुष्करमित्याह - यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्च -
मूलम् - गोअरग्गपविहस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥ २९ ॥ व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचरात्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुने - रिति गम्यं, पाणिर्हस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थवितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि प्राते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत्, बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ॥ २९ ॥ उदाहरणसम्प्रदायश्चात्र, तथाहि
अस्त्यत्र भरते स्वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ॥ १ ॥ बलार्धचक्रिणी राम-कृष्णाह्रौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव - रोहिणीदेवकीसुतौ ॥ २ ॥ तौ च प्रद्युम्नशाम्बाद्यैः सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्व, कोटिशो यदुपुङ्गवैः ॥ ३ ॥ सुररामाभिरामाभिः स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुआतां, पूर्णाखिलमनोरथौ ॥ ४ ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ ५ ॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवी ॥ समाकर्णयतां धर्म-देशनां सपरिच्छदौ ॥ ६ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदच्युतः ॥ अमुष्या द्वारकापुर्याः, स्वर्गधिकारिसंपदः ॥ ७ ॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः १ ॥ ततो जगाद भगवान्, ज्ञानराशिरिवाङ्गवान् ॥ ८ ॥ बहिः शौर्यपुरात्पारा - सराह्नस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ॥ ९ ॥ तया समं च यमुना- द्वीपे गत्वाऽऽरराम सः ॥ ततस्तयोरभूत्सनु-प्रेती द्वैपायनाह्वयः ॥ १० ॥ स परिव्राजको ब्रह्मचारी शान्तो जितेन्द्रियः ॥ हास्ते यदुषु स्नेहात् कुर्वन् षष्ठतपः सदा ॥ ११ ॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः ॥ येदुभिः
१ यदुभिः सकलैः साक, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ||
सकल साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी - नन्दनान्निजसोदरात् ॥ भावी जराकुमाराथ, तब मृत्युर्जनार्दन ! ॥ १३ ॥ श्रुत्वेति यदवः सर्वेऽप्युल्मुकायितदृष्टयः ॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ॥ १४ ॥ कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ १५ ॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६ ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षां कर्तुमगाइनम् ॥ १७ ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थ मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारौघ - हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ १९ ॥ तत्पार्श्वस्थाचलासन्न -कदम्बवनमध्यतः ॥ कादम्बरीदरीवर्त्ति - शिलाकुण्डेषु भूरिषु ॥ २० ॥ सकलं प्राक्कतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् ॥ २१ ॥ ( त्रिभिर्विशेषकम् ) प्राताऽथ बलदेवस्थ, स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुतसर्वज्ञ - वाणिरित्यवदद्वलम् ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयपुरीकुले ॥ तदहं खामिपादान्ते, प्रब्रजामि त्वदाज्ञया ॥ २३ ॥ ततोऽजबीइलोऽजस्र - स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु तं पालयित्वा त्वं देवत्वमुपागतः ॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयेः ॥ २५ ॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥
१ कदम्बवनवर्त्तिषु । इति 'ग' संज्ञकपुस्तके ||