________________
॥४०॥
उत्तराप्ययनसूत्रम् ब्रूहि प्रभो ! तस्मिन्नुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः १ ॥ १६ ॥ खामी माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमागत्वा कुम्भकार-कृते स सपरि. च्छदः॥ उद्याने समवासार्षी-त्तमश्रौषीच पालकः॥ १९॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥२०॥ इति दण्डकिराशे चा-ऽषडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१॥ अयं वयं महावीर्य-श्चण्डदोर्दण्डविक्रमैः ॥ साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्रहीष्यति ! ॥ २३॥ [ युग्मम् ] प्रत्ययश्चेन्न ते खामि-त्रस्मिन्मद्वचने भवेत् ॥ तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ॥ २४ ॥ एवं व्युद्राहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरैक्षत । ॥ २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानवन्धयत् ॥ अकार्य विद्यते किञ्चि-नाऽविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकस्यैव, तानिबद्धयार्पयन्नृपः ॥ यत्तुभ्यं रोचते तत्त्व- मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान् प्राप्य मुदितोऽथ सः ॥ संयतान् संयतान्मर्य-पीडायत्रान्तिकेऽनयत् ॥ २८ ॥ इति प्रोचे च रे ! यूय-मिष्टं स्मरत दैवतम् ॥ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशामृत्युभीति-विप्रमुक्ता मनखिनः ॥३०॥ गृहीतालोचना सम्यक, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदध विधिपूर्वकम् ! ॥ ३१ ॥ [ युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनखिभिः ॥ ३२ ॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा ॥ अभवंस्ते विशेषेण, खदेहेऽपि गतस्पृहाः!॥३३॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः ॥ एकैकं श्रमणं यत्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान विनेयान् खान्, वीक्ष्यान्तर्दयतामयम् ॥ इति स स्कन्दकं यत्र-पार्थे बद्धमधारयत् ॥३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः ॥ समन्ताद्धियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः॥३६॥ किन्तु साम्यसुधास्पन्द समयोचितैः ॥ वाक्यैर्निर्यामयामास, तानेवं स महाशयः! ॥ ३७॥ “भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः॥ विदन्निति वपु शेऽप्यन्तः खिघेत कः कृती ? ॥ ३८॥ किञ्चाखिलो विपाकोऽय-मस्ति खकृतकर्मणः ॥ दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाय-स्याङ्गस्याऽस्य कृते ततः ॥ कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ॥४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः ॥ महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यत्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः॥ केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् !॥ ४२ ॥ [युग्मम्] द्रुतं हतेषु तेनैवं, यूनपञ्चशतर्षिषु ॥ एक क्षुलुकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥ ४३ ॥ अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः! ॥ ४४ ॥ तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥ ४६ ॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ॥ ४८ ॥ अयं भूपोऽपि निग्रायो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, बध्या जानपदा अपि ! ॥ ४९ ॥ तहुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥ ५० ॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥ ५१ ॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः!॥ ५२ ॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ ५३ ॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ ५४ ॥ तचादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-शातुः प्रव्रजतोर्पितम् ॥ ५५ ॥ चिहेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६ ॥रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् ॥ महर्षीणां सुराणां च नवज्ञा शुभावहा!॥५७॥ इत्यदीर्येति दध्यौ चा-ऽधनाऽहं व्रतमाददे ॥ अलं संसारवासेना-जमुना दुःखौघदायिना ! ॥ ५८ ॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् !