________________
उत्तराध्ययनसूत्रम्
॥ ३९ ॥
॥ ४२ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ स्वामिन् ! कथं विशुद्धिर्मे भवेद्बहुलपाप्मनः ॥ ४३ ॥ अथोचे भगवांस्त्वं चे–दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ ४४ ॥ मलं खर्णगतं वह्नि - ईसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ॥ ४५ ॥ यथाम्बुदा विलीयन्ते, प्रचण्डपत्रनाहताः ॥ तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ ४६ ॥ तन्निशम्यार्जुनः स्वामि-समीपे व्रतमाददे || निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥ ४७ ॥ निरन्तरं षष्ठतपः कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्वहुलोकोक्ते - राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न खुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [ युग्मम् ] “मनिंदा यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ५१ ॥ किञ्च "अकोसहणणमारण - धम्मन्भंसाण बालसुलहाणं ॥ लाभ मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ५२ ॥” इति ध्यायन् स षण्मास, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, केबलज्ञानमुज्ज्वलम् ॥ ५३ ॥ ततश्विरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीषहोन्यै - रपि क्षमाठ्यैः श्रमणैर्विषयः ॥ ५४ ॥ इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ १२ ॥
१ मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥
अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषहमाह
मूलम् - हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्खं परमं नच्चा, भिक्खुधम्मं विचितए ॥ २६ ॥
व्याख्या - हतो यष्ट्यादिभिस्ताडितो न सयलेत्, कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलंतमिवात्मानं नोपदर्शयेद्धिथुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्ष क्षमां परमां धर्मसाधनं प्रति प्रकर्षतीं ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् भावयेच क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेवार्थ प्रकारान्तरेणाह -
मूलम् - समणं संजयं दंतं, हणेज्जा कोवि कस्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ २७ ॥
व्याख्या- श्रमणं तपखिनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयेत्कोऽपि तादृशो दुष्टः, कुत्रचिद्धामादौ तत्र किं कार्यमित्याह - नास्ति जीवस्थात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, 'एवं' खरूपार्थे, प्रेक्षेत मावयेत्संयतः साधुरिति सूत्रार्थः ॥ २७ ॥ निदर्शनञ्चात्र, तथाहि
अभून्नगर्या श्रावस्त्यां, जितशत्रुर्महीपतिः ॥ सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ १ ॥ गौरीशयोः स्कन्द इब, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥ २ ॥ तदा दण्डकि भूपोऽभू-कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी - दभव्यः पालकाभिधः ! ॥ ३ ॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ ४ ॥ अन्यदा सुव्रतखामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-सुरासुरनमस्कृतः ॥ ५ ॥ धन्यंमन्यः स्कन्दकोऽगा - तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मश्च प्रत्यपद्यत ॥ ६ ॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥७॥ स च भूपसभामध्ये, कुर्वन्निर्मन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ॥ ८ ॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि ॥ अपकर्तुम्पुनः किञ्चि- तस्य न प्राभवत्तदा ॥ ९ ॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तचित्ता - त्कोपः स्कन्दकगोचरः ॥ १० ॥ अथ श्रीसुव्रतखामि - पादान्ते दान्तमानसः ॥ प्रात्राजीत्स्कन्दकः सार्क, मर्त्यानां पञ्चभिः शतैः ॥ ११ ॥ क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः ॥ तस्मै शिष्यतया तानि पञ्च साधुशतान्यदात् ॥ १२ ॥ अन्येद्युः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति ॥ व्रजाम्यहं खसुर्देश -मादेशः स्याद्यदि प्रभोः ॥ १३ ॥ जगौ जगत्प्रभुस्तत्रो - त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ १४ ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम् ॥ दुःखायते महानन्द - महानन्दाभिलाषिणाम् ! ॥ १५ ॥ ततो
१ मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ॥