________________
॥ ३८ ॥
उतराष्ययनसूत्रम्
षभाषी । उपेक्षेतावधीरयेत्, प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ दृष्टान्तश्चात्र, तथाहि
अभूत्पुरे राजगृहे, गृहे निःशेष सम्पदाम् ॥ मालाकारोऽर्जुनाह्नानः, स्कन्द श्री स्तस्य च प्रिया ॥ १ ॥ यक्षो मुङ्गरपाण्याह्नः पुराद्राजगृहाद्वहिः ॥ अर्जुनस्याराममार्गे - ऽभवद्गोत्रदेवता ॥ २ ॥ कुसुमैर्मेदुरामोद-प्रमोदितजगज्जनैः ॥ यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्द श्रीरन्यदा भर्तु भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥ ४ ॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः पट् कामिनो नराः ॥ ५ ॥ असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥ ६ ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याप्रे नुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ ७ ॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि । तञ्चायान्तं विलोक्यैवं, स्कन्द श्रीस्तानभाषत ॥ ८ ॥ आगच्छत्यर्जुनोऽसौ त किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून - मेतस्याः प्रियमस्त्यदः ॥ ९ ॥ वराकान्मालिकादस्मा-न्नास्माकं भीरु ! भीरिति ॥ ब्रुवन्तस्ते बबन्धुश्च द्रुतमर्जुनमालिनम् ॥ १० ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ ११ ॥ स्वभार्या भुज्यमानां तै- वक्ष्याऽचिन्तयदर्जुनः ॥ एनं यक्षं पुष्पपुत्रैः, पूजयाम्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः प्राप्नोम्येतां विडम्बनाम् ॥ तन्निश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते 1 ॥ १३ ॥ यदि चात्र भवेद्यक्ष - स्तदासौ मां खसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्तमिति तं ज्ञात्वा यक्षस्तदनुकम्पया ॥ प्रविवेशाशु तस्याने ऽछिदत्तद्वंधनानि च ॥ १५ ॥ सहस्रपल निष्पन्नं, गृहीत्वा लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ॥ १६ ॥ इत्थं प्रतिदिनं नारी - सप्तमान् मानवान् स षट् ॥ जघान सतताभ्यासाद्रामं भ्रामं पुराद्वहिः ॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स -स्तावन्न निरगाद्वहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ १८ ॥
अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पुवास्तव्यः, श्रुत्वा श्रीमज्जिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्लसत्तनुः ॥ २० ॥ अहो ! जगजनाम्भोजप्रबोधननभोमणिम् || श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाज्जनः ॥ २१ ॥ जिनस्य विश्वत्रितय- त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि तज्जनोऽयं विभेति किम् ? ॥ २२ ॥ यद्भाव्यं तद्भवतु वा खामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगान्नगराद्वहिः ॥ २३ ॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ॥ २४ ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्यमृशद्वर्य - स्थैर्य - धैर्यः सुदर्शनः ॥ २५ ॥ अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकृत्यं कुर्वेह - मेवं ध्यात्वेति सोऽब्रवीत् ॥ २६ ॥ अर्हत्सिद्धमुनीन् जैनं, धर्मे व जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किञ्चा स्मादुपसर्गाचे -- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ॥ २८ ॥ इत्थं निगद्य साकाराअनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ॥ २९ ॥ सद्यः सुदर्शनाभ्यर्ण - मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य-द्वलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह- मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्रामं भ्राममविश्रामं, यक्षः श्रान्तोऽभवत्ततः ॥ न तु तं द्रष्टुमैशिष्ट, दुईष्ट्याऽर्कमुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्तवा -ऽर्जुनं यक्षोऽगमत्ततः ॥ अपि देवबलाद्धर्म- बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृय, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादर्श, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष १ क स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव निद्रावस्थानुभूतवत् ॥ ३५ ॥ सोऽथाऽप्राक्षीत्स्वस्वरूपं, कृतोत्सर्गे सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदो--ऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥ अहो ! अज्ञानिना घोरं कर्मेदं नरकप्रदम् ! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं १, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽभ्यभाष्छ्रीमहावीरं वन्दनार्थं ब्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - इन्दितुं परमेश्वरम् ॥ अहमप्यागमिष्यामि त्वया सह महामते । ॥ ४० ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः स्वामिदर्शनोत्सुकदर्शनः ॥ ४१ ॥ श्रीबर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम्