________________
उत्तराध्ययनसूत्रम्
॥ ३७ ॥
पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु भिक्षार्थ गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ ५ ॥ अन्ये त्वाहुर्ददे ताभि - मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच तावपि ॥ ६ ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ ७ ॥ अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् ॥ सुरामप्यऽपिवावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८ ॥ सेवेताकल्प्य - मप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ ९ ॥ इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ ॥ तावकाष् पादपोप - गमनं मुनिसत्तमौ ॥ १० ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावितसैकतैः ॥११॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि प्रतिनौ तु तौ ॥ १२ ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा - भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां प्रास - विबाधाश्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ १५ ॥ [ युग्मम् ] यावज्जीवं विषति, तीव्रं शय्यापरीषहम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या -परीपहं यद्वदहार्यधैर्यौ ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥ १७ ॥ इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥ ११ ॥
शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - मूलम् - अक्कोसिज परो भिक्खु, न तेसिं पडिसंजले । सरिसो होई बालाणं, तह्मा भिक्खू न संजले ॥२४॥
व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवद्दीप्येत । चिन्तयेच्चैवं - " आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोपः १, स्यादनृतं किं नु कोपेन १ ॥ १ ॥ " किमेवमुपदिश्यत इत्याह- प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥
तथा हि काप्रभूत्कश्चि- दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास - क्षपणादिकमाचरन् ॥ १ ॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥ २ ॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः ॥ जातकोपः समं तेन, योद्धुं प्रववृतेतराम् ॥ ३ ॥ क्षुत्क्षामदेहः क्षपक - स्वतस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरखिना ॥ ४ ॥ गुहुर्मुहुस्ताडयित्वा द्विजेन मुमुचेऽथ सः ॥ ततः स्वस्थानमगमत्क्षपकोऽपि कथञ्चन ॥ ५ ॥ तत्पार्श्वेऽथ विभावर्या, विभाभिर्भासुरा सुरी ॥ समाजगाम तत्पादौ, प्रणनाम व पूर्ववत् ॥ ६ ॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः ॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥ ७ ॥ त्वं न जल्पयसि खामि-नपराधात्कुतोऽद्य मां ? ॥ ततो वाचंयमोप्युच्चैः, प्रत्युवाचेति निर्जरीम् ॥८॥ द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य किञ्चिन्नापकृतं च यत् ॥ ९ ॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् ॥ तच्छ्रुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥ १० ॥ [ युग्मम् ] युवयोरभवद्युद्धं, यदान्योन्यविलग्नयोः ॥ तदाहमपि तत्रैवा - ऽभूवं कौतुकदर्शिनी ११ ॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा - मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त - कोपाटोपोऽब्रवीदिति ॥ १३ ॥ सूनृता प्रेरणा देवि त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ॥ १४ ॥ ततो यतिं तं प्रणिपत्य सत्य - भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इतिक्षपककथा ॥
उक्तमेवार्थ निगमयितुमाह- 'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ २४॥ कृत्योपदेशमाह
मूलम् - सोच्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ॥२५॥
व्याख्या- श्रुत्वा 'णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओति' तूष्णींशीलो न कोपात्परु