________________
॥ ३५ ॥
उत्तराध्ययनसूत्रम्
व्याख्या- श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाघोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टवेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयेत्, परमन्यं मनुष्यादिकं, अयं भावः- श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न स्वयं विभीयात् न च विकृतखरशरीरविकारादिभिरन्येषां भयमुत्पादयदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याह
मूलम् — तत्थ से चिट्ठमा णस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उट्ठित्ता अण्णमासणं ॥२१॥
व्याख्या-तत्र श्मशानादौ 'से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत्, किं नामैते दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ २१ ॥ दृष्टान्तश्चात्र, तथाहि
अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥ १ ॥ स संविभो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदे ऽन्यदैकाकि - विहारप्रतिमां सुधीः ॥ २ ॥ विहरन्नेकदा सोऽथ, साकेतनगरान्तिके ॥ art प्रतिमा तुर्य - पौरुष्यां धैर्यमन्दरः ॥ ३॥ ततश्च गोधनं हत्वा चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यर्षेः पार्श्वस्थेनाध्वना ययुः ॥ ४ ॥ साधुपार्श्वमथाभ्येयु - गोधनान्वेषका अपि ॥ द्वौ मार्गों तत्र दृड्डा ते, पप्रच्छुश्चेति तं मुनिम् ॥ ५ ॥ ब्रूहि साधो ! पथा केन, जग्मुचौराः सगोधनाः ! ॥ तच्छ्रुत्वापि मुनिस्तेषां न ददौ किञ्चिदुत्तरम् ॥ ६ ॥ ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् || मौलौ तस्य मुनेः पालीं, बबन्धुर्दुष्टचेतसः ॥ ७ ॥ तत्र क्षित्वा चिताङ्गारान् ययुस्ते क्रोधविह्वलाः ॥ मुनिस्तु तैर्ज्वलन्मौलि - रप्येवं हृद्य चिन्तयत् ॥ ८ ॥ “ सह कलेवर ! खेदमचि - न्तयन्, स्ववशता हि पुनस्तव दुर्लभा ! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥ ९ ॥” ध्यायन्निति यतिमलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ १० ॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधि सेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्यैः ॥ ११ ॥ इति नैषेधिकीपरीष कुरुदत्तसुतर्षिकथा ॥ १० ॥
नैधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह
मूलम् — उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं णिहण्णेजा, पावविट्ठी विहण्णइ ॥२२॥
व्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाभावचाश्थ, उच्चावचास्ताभिः शय्याभिर्वसतिभिस्तपस्वी तपः कर्त्ता, भिक्षुर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान्, न नैव अतिबेलं स्वाध्यायादि वेलातिक्रमेण विहन्यात्, इंतेर्गतावपि प्रवृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनीं मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वर्तुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो ! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न लक्ष्येत् । कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहरणइ' इति - प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याह
मूलम् — पइरिक्कं उवस्सयं लहुं, कल्लाणं अदुव पावगं । किमेगराई करिस्सइ, एवंतस्थ हिआसए ॥ २३ ॥
व्याख्या - प्रतिरिक्तं ख्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं ' अदुवत्ति' अथवा पापकर्मशोभनं किं न किश्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः - केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा १ । मया हि समभावार्थमेव प्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणञ्चात्र तथाहि
बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त - सोमदेवाभिधौ सुतौ ॥ १ ॥ सोमभूतिमुनेः पार्श्वे, तौ द्वावपि महाशयी ॥ प्रात्राजिष्टां भवोद्विग्ना - वभूतां च बहुश्रुतौ ॥ २ ॥ अन्यदा खजनान् द्रष्टुं तौ कौशास्त्रीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां गत्वाऽभूवन् स्थितास्तयोः ॥ ३ ॥ ततस्तावप्य चलता-मभिमालवकं मुनी ॥