________________
उत्तराण्ययनसूत्रम्
॥३५॥ स्थातुं न युक्तपित्यस्था-त्पार्श्वस्थे स कुटीरके ॥ ११ ॥ पश्चाद्गत्वा सुरिपार्थे, सोऽनमत्तान्निरादरः ॥ साधुसौख्यविहारादि-वार्ता तैरप्यपृच्छयत ॥ १२ ॥ दत्तोऽपि सकलं सूरि-पृष्टं प्रोचे यथातथम् ॥ भिक्षाकाले च मिक्षार्थ, जगाम सह सूरिभिः ॥ १३ ॥ दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि ॥ निस्संगाः पर्यटन्तिस्म, प्रोचनीचकुलेषु ते ॥ १४ ॥ कालदौःस्थ्यादटन्तोपि, नापुस्ते भक्ष्यमुत्तमम् ॥ लेभिरे प्रान्तमैक्ष्यं तु, स्वल्प खल्पं क्वचित् क्वचित् ॥१५॥ ततो दत्तमुनिर्भेक्ष्यं, तथाविधमनामुवन् ॥ कोपाविष्टो बभूषान्त-दुष्टश्चैवमचिन्तयत् ॥ १६ ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ! ॥ १७ ॥ सूरयोपि तदाकूतं. ज्ञात्वा कोपेङ्गितादिभिः ॥ तत्तुष्टिकारिभिक्षार्थ-मिभ्यश्रेष्ठिगृहं ययुः ॥ १८ ॥ दुष्टरेवतिकासंज्ञ-व्यन्तरीभिरुपद्रुतः ॥ तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ १९॥ अगाश्च रदतस्तस्य, एण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः॥२०॥ गत्वा तस्य शिशोः पार्थे. कृत्वा चप्पटिकाध्वनिम् ॥ वत्स ! मारुदिहीत्यूचु-स्तदा सङ्गमस रयः ॥ २१ ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि, न रुरोद ततः परम् ॥ २२ ॥ तीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्यमत्रयत् ॥ हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ २३ ॥ दत्तायाऽदापर्यश्चित्त-मोदकांस्तांश्च मोदकान् ॥ सूरिमुख्याः पुनर्नैक-मपि तं जगृहुः खयम् ॥ २४ ॥ भ्रमन्मया समं पूर्णा-ऽऽ हारो मा खिद्यतामसौ ! ॥ ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ॥ २५॥ विशिष्टगृहमेकं मे, गुरवो दर्शयंश्चिरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ॥ २६ ॥ चिन्तयन्निति दत्तर्षि-जंगामोपाश्रय निजम् ॥ खयं शठो हि सरल-मप्यन्यं मन्यते शठम ॥ २७॥ आचार्यास्त चिरं भ्रान्त्वा. गृहीत्वा आययुः खाश्रयं द्वाव-प्याहारं च वितेनतुः ॥२८॥ अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः॥ आलोचयतु भिक्षाया, दोषानघतनान् भवान् ! ॥ २९ ॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यहम् ॥ तत्किमालोचयामीति, दत्तेनोके गुरुर्जगी ॥ ३० ॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः ॥तमालोचय तच्छुत्वा, सकोप इति सोऽप्रवीत् ॥ ३१ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि !॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ ३२॥ द्रष्टुं खदोषान् लोकानों, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥३३॥ विब्रुव मिति दत्तोऽगा-त्ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥ ३४ ॥ तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ ३५ ॥ ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ॥ ३६ ॥ सकर्करोत्करं रेणु-निकरं खरवायुना ॥ उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ ३७ ॥ दत्तस्ततो भयभ्रान्त-खान्तो ध्वान्तावृतेक्षणः ॥ अन्धाधुक्षिप्तवत्पश्य-नपि नैक्षिष्ट किञ्चन ॥ ३८ ॥ वेपमानवपुः सोऽथ, भयव्याकुलया गिरा ॥ व सन्ति पूज्या इत्युचैः, सूरिसिंहानशब्दयत् ॥ ३९ ॥ शब्देन ताशा भीतं, तं ज्ञात्वेति गुरुर्जगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-न वः पश्यामि तामसैः ॥ ४० ॥ ततस्तस्याङ्गुलीमेका-मामृश्यादीशद्गुरुः ॥ सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः ॥४१॥ तदृष्ट्वा व्यमृशहत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म-दुरवो रक्षयन्त्यमी ॥ ४२ ॥ तच्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ॥ ४३ ॥ चंद्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीडशेव्यपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः! ॥ ४४ ॥ त्वमेवं सद्गुरून्निन्द-निदानी लप्स्यसे क्षयम् !॥ ज्वालाजिवं ज्वलद्रूप-माक्रामन् शलभो यथा ॥ ४५ ॥ समतारसपीयूष-कुण्डं यद्यपि सूरयः ॥ शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥ १६ ॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ ४७ ॥ तच्छ्रुत्वा जातभीदत्तो, निपत्य गुरुपादयोः ॥ खमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥४८॥ गुरवोऽपि जगुवेत्स !, मामेषीनोस्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगान्निजास्पदम् ॥४९॥ नवभागविहारायां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निश्शको, गुरुभक्तोऽभवद्भृशम् ॥५०॥ यथा परित्वेऽप्यसहिष्ट चर्या-परीषहं सङ्गमसूरिरेवम् ॥ तथा मुनीन्द्रैः सकलैः स सयो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ ५१ ॥ इति चर्यापरीषहे सङ्गमाचार्यकथा । ९॥
यथा च प्रामादिष्वप्रतिबद्धन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रति बढेन सह्य इति तमाहमूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥२०॥