________________
॥ ३४॥
उचराध्ययनसूत्रम् चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ १८७ ॥ अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुर्मुनिम् ॥ १८८ ॥ शकुनः पुनरित्याख्य-द्याति लक्षमिदं पुरः ॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ १८९ ॥ वयं तवाभयं दद्मः, तथ्यं धद किमस्ति ? ते ॥ ततो यति गौ यूर्य, सत्यं शृणुत दस्यवः ! ॥ १९० ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रनकम्बलः ॥ मत्पार्थ इति तेनोक्ते-ऽमुचत्तं चौरराट् मुनिम् ॥ १९१ ॥ अथागत्य स कोशायै, रत्नकम्बलमार्पयत् ॥ गृहनिर्धमने साऽपि, तं निचिक्षेप पङ्किले ॥ १९२ ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रत्नकम्बलः १ ॥१९३॥ कोशा शशंस यद्येत-जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढ्यं, क्षिपसि ? श्वभ्रकर्दमे ॥ १९४ ॥ किञ्च रनत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदङ्गे खालजम्बाल- कल्पे क्षिपसि किं मुधा ? ॥ १९५॥ तच्छुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः॥ संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनघे! ॥१९६ ॥ अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहदम् ॥ १९७ ॥ कोशाऽब्रवीद्रह्मचर्य-स्थितयाऽपि मया मुने! ॥ यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम! ॥ १९८ ॥आशातना मया युष्म-प्रतिबोधाय या कृता ॥सा सोढव्या गुरोराज्ञा, वोढव्या च खमौलिना ! ॥९९ ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः, खनिन्दामिति चाब्रवीत् ॥ २००॥ अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् ॥ प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् ! ॥ २०१॥काऽहं ? सत्वोज्झितः!क? श्री- स्थूलभद्रश्च धीरधीः ! ॥ व सर्षपः १ क हेमाद्रिः १, क खद्योतः क्व चांशुमान् ? ॥२०२॥ इत्युदीयोलोचनां च, गृहीत्वा स विशुद्धधीः ॥सुदुस्तपं तपस्तपे, कर्मेन्धनहुताशनम् ॥ २०३ ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥ २०४ ॥ स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्नः त्वात्मनः शशिमुखीषु निधेयम् ॥ २०५ ॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥ ८॥
स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥
व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासकैषणीयाहारेण यापयति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , व चरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' पूरणे, निगमे वा वणिगनिवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणञ्चैतदिति सूत्रार्थः ॥ १८ ॥
पुनःप्रस्तुतमेवाहमूलम्-असमाणो चरे भिक्खू, नेअकुजा परिग्गरं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥१९॥ ___ व्याख्या-असमानोऽसदृशो गृहस्थैः सहाश्रयमूर्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्भिक्षुर्मुनिः,कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रहं, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसंबद्धो गृहस्थैहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत् , गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्वादिति भाव इति सूत्रार्थः ॥ १९॥ आख्यानश्चात्र, तथाहि__ अभवन् भुवनाभोग-भासनाम्भोजपाणयः ॥ सूरयः सङ्गमाहाना, जिनाज्ञापालनोद्यताः॥१॥ उत्सर्गश्चापवादञ्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजबाबलास्तस्थुः, पुरे कोलकिराभिधे ॥ २॥ एकदा तत्र दुर्भिक्षे, साते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३॥ खयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमासकल्पादि-विधिना विधिवेदिनः ॥ ४॥ क्षीणजवाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥५॥ प्रकृष्टांस्तगुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ ६ ॥ वर्षान्तरे च तत्रागात् , प्रहितः सिंहमूरिणा ॥ सङ्गमाचार्यशुद्धयर्थ, तच्छिष्यो दत्तसंज्ञकः ॥७॥ यत्र स्थितैस्तैराचार्य-च्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ॥ ८॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सगैंकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ॥ ९॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ १० ॥ तदमीभिः सहैकत्र, ममोधुक्तविहारिणः ॥