________________
उचराप्पयनसूत्रम् पीन-त्रिवलीवल्लिमालम् ॥ दर्शयन्ती मध्यदेश-मगमोटनपाटवात् ॥१४४ ॥ रोमराजीवलयितां, गम्भीरां नामिकृषिकाम् ॥ प्रकाशयन्ती सुन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ १४५ ॥ दग्धपूर्व महेशेनो-जीवयन्ती मनोभवम् ॥ पञ्चमजनिगीतन, पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु-वीणाघातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे, नाव्यं विश्चैकमोहनम् ॥ १४७ ॥ [ षड्डिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगौ ॥ १४८ ॥ खामिंस्तव वियोगेन, तीब्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ॥ १४९ ॥ सोदरं बडवावहे-मन्ये त्वद्विरहं विभो ! ॥ यदयं नेत्रनीरोघं, पायं पायमवर्धत ॥ १५०॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥ १५१ ॥ सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खार्मि-स्तत्प्रेम क गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः १ प्रभो! ॥ १५३ ॥ विभो ! विधेहि करुणां, निजे हदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ १५४ ॥ इति श्रुत्वाऽपि स मुनि-ने चुक्षोम मनागपि ॥ बह्वीमिरतिषास्यामिः, सुमेरुः किमु कम्पते ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नियं कृता मपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमत्रवीत् ॥ १५७ ॥ यदज्ञानात्त्वया साकं, प्राग्वद्न्तुमना अहम् ॥ अकार्ष क्षोभनोपायान् , तदागस्त्वं सहख मे ॥ १५८ ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत ॥ प्रबुद्धा साऽपि तं धर्म, खीकृत्याभ्यग्रहीदिति ॥ १५९ ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः ॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्धपाः ॥ १६० ॥ अथ प्रान्ते चतुर्माखा-स्तीर्णखखप्रतिश्रवाः ॥ ते प्रयो मुनयो जग्मुः, क्रमात्वगुरुसन्निधौ ॥ १६१॥ तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः ॥ गुरुर्जगी खागतं ते, वत्स ! दुष्करकारक! ॥ १६२ ॥ अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ ॥ स्थूलभद्रोऽप्यऽथाऽऽयासी-संतीर्णाभिग्रहार्णवः ॥१६३ ॥ तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, खागतं ते तपोनिधे ! ॥ १६४ ॥ सामर्षास्तन्निशम्येति, दध्युस्ते यतयायः ॥ गुरषो मत्रिपुत्रत्वा-देवमामयन्त्यमुम् ! ॥ १६५ ॥ नित्यं षड्रसमाहारं, भुक्त्वा तत्र स्थितोऽ प्यऽसौ ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः! ॥ १६६ ॥ वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान् , कष्टादष्टाऽत्यवाहयन् ! ॥१६७॥ वर्षाकालेऽथ सम्प्रासे, मानी सिंहगुहामुनिः ॥ सम्भूतविजयाचार्यान् , प्रणम्येति व्यजिज्ञपत् ॥ १६८ ॥ सर्वदा षड्रसाहार-भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासी, स्थूलभद्र इव प्रभो ! ॥१६९॥ अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽजीकरोत्यदः । विमृश्यत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत् ॥ १७० ॥ वत्साभिग्रहमेनं मा-कार्दुष्करदुष्करम् ॥ क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ॥ १७१ ॥ अपि खयम्भूरमण-स्तरीतुं शक्यते सुखम् ॥ अयं त्वभिग्रहो धर्तु, दुष्करेभ्योऽपि दुष्करः ! ॥ १७२ ॥ दुष्करोऽप्यस्ति नायं मे, क नु दुष्करदुष्करः १ ॥ करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ॥ १७३ ॥ अयोचे सूरिरेतस्मादभिग्रहकदाग्रहात् ॥ वत्स ! ते भाविनी लाम-मिच्छतो मूलविच्युतिः ! ॥ १७४ ॥ एनामपि गुरोर्वाचं, मुमुक्षुरवमत्य सः॥ वीरंमन्यो ययी कोशा-सदनं मदनाश्रयम् । ॥१७५ ॥ स्पधया स्थूलभद्रस्य, नूनमागा शाऽपि तं विलोक्येति, दयौ दक्षा नमच तम् ॥ १७६ ॥ स्थित्यर्थ प्रार्थयामास, स साधुचित्रशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्ता प्रविष्टवान् ॥ १७७ ॥ बुभुजे च तया दत्त-माहारं षड्रसाश्चितम् ॥ अथ कोशाऽपि तत्रागा-न्मध्याहे तं परीक्षितुम् ॥ १७८ ॥ मृगाक्षीं तां च स प्रेक्ष्य, क्षणाक्षोभमुपागतः ॥ मदनावेशविवशः, संवेशनमयाचत ॥ १७९ ॥ ततः कोशा तमित्यूचे, खामिन् ! पण्याजना वयम् ! ॥ खीकुर्मः शक्रमपि नो, धनदानं बिना कृतम् ! ॥ १८० ॥ मुनिः माह प्रसथ त्वं, मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदु-. लेमम् ! ॥ १८१॥ त्वदाज्ञाविवशथाहं, धनमप्यानये द्रुतम् ॥ निवेदयसि चेन्मलं, तत्प्राप्तिस्थानमुत्तमम् ॥१८२॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ॥ नन्यसाघोर्लक्षमूल्यं, प्रदत्ते रखकम्बलम् ॥ १८३ ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ॥ १८४ ॥ तत्र गत्वा धराधीशा-द्रनकम्बलमाप्य च ॥ ववले स मुनिः सयो, वेश्यां ध्यायन्मनोन्तरे ॥ १८५ ॥ तत्र मार्ग स्थितानां च, दस्यूनां शकुनस्तदा ॥ आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ॥ १८६ ॥ किमायातीत्यपृच्छच, वृक्षारूढं