________________
॥३२॥
उत्तराप्ययनसूत्रम् दीक्षा-माददे विधिपूर्वकम् ॥१०॥श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी ॥१०१॥ भट्टो वररुचिः सोऽपि, सिपेवे भूपमन्वहम् ॥ कोशा खसारं भेजे चो-पकोशां तद्वशंवदः ॥१०२॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दियानिशम् ॥ १०३ ॥ भ्रातुः प्रियेति तद्गुहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ॥१०४॥ श्रीयकस्तां तदेत्याख्य-द्रहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि-मम तातमघातयत् ॥ १०५ ॥ श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव ॥ अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ॥ १०६ ॥ तव खसारं तद्याव-दुपकोशां भजत्ययम् ॥ वैरनितिनोपायं, तावत्किञ्चिद्विचारय ॥१०७॥ यदि चायं पिबेन्मधं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ॥ १०८ ॥ एवं देवरवाक्पं सा, खीचकार पणागना ॥ ऊचे च भगिनी मद्य-रुचिं वररुचिं कुरु ॥१०९॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥११० ॥ खैर पररुचिर्भद्दो, मद्यमद्यास्ति पायितः॥ उपकोशेति कोशाये, प्रभातेऽज्ञापयत्ततः ॥ १११॥ कोशाऽपि तं तवृत्तान्त, श्रीयकाय न्यवेदयत् ॥ तच्छुत्वा श्रीयकोप्युञ्चै-स्तुष्टोऽगात् भूपपर्षदि॥ ११२॥शकटालगुणान् स्मारं, स्मारं नन्दनृपोडन्यदा ॥ इत्यूचे श्रीयकामात्य-मास्थावस्थः सगद्गदम् ॥१०३॥ शकटालो महामत्री, ममाऽभूद्भरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे !॥११४ ॥ उवाच श्रीयकः खामि-निह किं कुर्महे ? वयम् ॥ सुरापायी वररुचिः पापं सर्वमिदं व्यधात ॥११५॥ किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः ॥ इदं वो दर्शयिष्यामी-त्युवाच श्रीयकोऽपि हि ॥११६ ॥ द्वितीये चाहि सभ्यानां, राज्ञश्च श्रीयकः सुधीः॥ एफैकमार्पयत्पन, शिक्षितेनाऽनुजीविना ॥११७॥ उग्रप्रत्यग्रमदन-फलनिःस्यन्दभावितम् ॥ पापस्यादापयत्पाथो-रुहं वररुचेः पुनः ॥ ११८ ॥ नृपाद्यास्तानि पमानि, घायं प्रायमवर्णयन् ॥ ततो वररुचिःखीय-मप्यजिघ्रत् पयोरुहम् ॥ ११९ ॥ सुरां स चन्द्रहासाख्या, निशापीतां ततोवमत् ॥ तद्वीक्ष्य भर्सितः सभ्यैः, सभाया निर्जगाम च ॥१२० ॥ स खनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः ॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाघघातकम् ? ॥१२१॥ तापितत्रपुणः पानं, मदिरापानपापहृत् ॥ तैरित्युक्ते सोऽपि सद्य- स्तन्निपीय व्यपद्यत ॥ १२२ ॥
इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ॥१२३ ॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः ॥ वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ १२४॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिश्रवम् ॥ १२५ ॥ ग्विषाशीर्विषबिल-द्वारे स्थास्याम्युपोषितः॥ चतर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥१२६ ॥ स्थास्यामि कृपफलके, कृत्वोत्सर्गमुपोषितः ॥ चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ १२७ ॥ ज्ञात्वा तान् संयतान् योग्या- ननुमेने गुरुयंदा ॥ स्थूलमद्रस्तदोत्थाय, गुरूनेवं न्यजिज्ञपत ॥ १२८ ॥ कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः ॥ स्थास्याम्यहं चतुर्मासी, कोशावेश्या निकेतने ॥ १२९॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ सर्वेऽप्यऽङ्गीकृतस्थाना-
न्य मन्मुनयस्ततः ॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्ति प्रापुस्त्रयोऽप्येते, सिंहसारपट्टिकाः ॥ १३१ ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पिोमहर्षा तमभ्यगात् ॥ १३२ ॥ अयं परीषहोविनो, भन्मः संयमवीवधात् ॥ आगानूनं तदद्याऽपि, दैवं जागर्ति मामकम् ॥ १३३ ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् । कामधिकारिरूप हे!॥ १३४ ॥ अद्य चिन्तामणि लेब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्रासा, नाथ ! त्वयि समागते ॥ १३५ ॥ अद्यान्तरायापगमात्, पुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्यामं, यत्प्राप्तं तव दर्शनम् ॥ १३६ ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्यहम् ॥ १३७ ॥ ततः श्रीस्थूलभद्रर्षि-मंगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादतं षड्रसाढ्य-माहारमुपभुज्य च ॥प्रणिधानं दधी साधुः साधुधर्माजषट्पदः ॥ १४० ॥ रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः॥ शृङ्गारागारशृङ्गार-धराऽनान्मुनिसनिधौ ॥ १४१ ॥ कटाक्षैर्लक्षयन्ती तं, मुनि स्मरशरोपमैः ॥ हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ॥ १४२ ॥ उत्तरीययथास्थान-स्थापनव्याजतो मुहुः ॥ न्यअयन्ती स्तनौ स्तब्धौ, खसौन्दर्यमदादिव ॥ १४३ ॥ सल्लावण्यसुधा