________________
उत्तराप्पयनसूत्रम् खान पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मत्रिगृहे चरम् ॥ ५६ ॥ सोप्यागत्य यथादृष्टं, शननिष्पादनादिकम् ॥राज्ञे व्यज्ञपयद्राजा-ऽप्यकुप्यन्मंत्रिणे ततः॥ ५७ ॥ अथ सेवार्थमायातो-ऽनमन्मंत्री यतो यतः॥ कोपात्पराअखस्तस्या-ऽभवद्भपस्ततस्ततः ॥ ५८ ॥ ततोऽतिकुपितं पृथ्वी-पतिं विज्ञाय धीसखः ॥ व्याधुव्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि मक्तेऽपि, यत्तिष्ठति परामुखः ॥ तन्मन्येऽस्मद्धिपा केना-ऽप्यचासौ द्वेषितो नृपः ॥ ६९ ॥ द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसणा-मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्माकं, न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥६॥ खड्न मौलिं छिन्धास्त्वं, भूपतिं नमतो मम ॥ श्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति ॥ मवंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः॥ ६४ ॥ तच्छ्रुत्वा श्रीयकः माह, रुदनिति सगद्गदम् ॥ तातेदं गर्हितं कर्म, अपचोऽपि किमाचरेत् ? ॥ ६५ ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥ ६६ ॥ ततो मत्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ६७ ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! खीकुरु मद्वचः॥ त्यजेदेकं कुलस्वार्थे, श्रतिमेनां विचारय ॥ ६८॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा खयं विपत्स्येऽहं, तातहत्या ततो न ते ॥ ६९ ॥ तदेतत्प्रतिपय त्वं, मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्यसनोदधेः॥ ७० ॥ तच्छुत्वा श्रीयको दध्यौ, किं करोमिक याम्यहम् ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ ७१॥ इतस्तातवपुषोतः, इतधाज्ञाव्यतिक्रमः॥ आपन्नस्तदयं न्यायः, इता व्याघ्र इतस्तटा ॥७२ ॥ध्यायन्नव कथमा पाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ ७३ ॥ पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः॥ उपविश्य ततो मत्री, किश्चिदूचे यथोचितम् ॥७४॥ तथाप्यजल्पति मापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥ ७५ ॥ ततो हाहारवो लोकै-धके भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स !, दुष्कर किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ ७७ ॥ खामिद्रोही च निग्रास, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ॥७८ ॥ तच्छुत्वा ब्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः ! ॥ ७९ ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते । ॥८॥ध्यात्वेत्याचासयद्भूपः, श्रीयकं प्रियभाषितैः ॥ प्रेम्णा खयं वितेने च, शकटालोर्द्धदेहिकम् ॥ ८१॥ ऊचे च श्रीयकं मत्रि- मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयनृपम् ॥ ८२ ॥ अस्ति श्रीस्थूलभद्राहः, कोशागेहे ममाग्रजः ॥ तिष्ठतस्तत्र तस्याध, जज्ञे द्वादशवत्सरी ॥ ८३ ॥ तस्यासी दीयता मुद्रा, श्रुत्वेत्याहूय तं नृपः॥ जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्त तेन नृपोऽवदत् ॥ यद्विचार्य तदद्यैव, विचारय महाशय ! ॥ ८५ ॥ अशोकवनिकां गत्वा, सोऽप्येवं व्यमृशत्ततः ॥ नियोगिनां राजकार्य-व्यग्राणांक सुख मवेत् १ ॥ ८६ ॥ नियोगी दुःस्थवत्काले-ऽप्यभुते नहि भोजनम् ॥ अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ !॥८७॥ राज्यचिन्ताकुलः खीथ, स स्मर्तुमपि न प्रभुः ॥काऽसौ क्षमोज्नुभवितुं, गीतनाट्यादिकं पुनः ? ॥ ८८ ॥ सत्यप्येवं खामिभक्तः, खामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-चेनिष्कारणवैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ ९० ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ ९१ ॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविणक्रीता, दौकते नरकव्यथा ॥९२॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्सते खहिते प्रते ॥९३॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनतैल-कस्तूरीपङ्कपङ्किलाम् ॥९४॥ कृत्वा धर्मध्वजं रन-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाप-मालोचितमिदं मया ॥९५ ॥ इत्युक्त्वा धर्मलामं च, दत्वा स प्रस्थितो मुनिः॥निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ॥९६॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः १॥ इति ध्यायन् गवाक्षेण, मापस्तं यान्तमैक्षत ॥ ९७॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु ॥ गच्छन्नाच्छादयद् घाणं, नाऽपि वक्रममोटयत् ॥९८ ॥ तथा प्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः ॥वीत मोहो महात्मायं, सुधा घ्यातं मयाऽन्यथा ॥९९।। स्थूलभद्रोऽपि सम्भूत-विजयखामिसन्निधौ ॥ गत्वा नत्वा च तान्