________________
॥ ३० ॥
उत्तराध्ययनसूत्रम्
विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ॥ ११ ॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः ॥ अपि वाचस्पतेर्वाचां तद्भवेन्नैव गोचरः ॥ १२ ॥ दृढानुरागौ तौ भिन्न- देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि - सेहाते नखमांसवत् ॥ १३ ॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम् ॥ श्रीयकस्तु बभूवाङ्ग - रक्षको नन्दभूभुजः ॥ १४ ॥ इतश्च नन्दनृपतिं, नाम्ना वररुचिः कविः ॥ नन्यैरष्टोत्तरशत - काव्यैरन्वहम स्तवीत् ॥ १५ ॥ तानि श्रुत्वा नृपस्तुष्टो, मनिष व्यलोकत ॥ स तु मिध्यामतेम्तस्य, प्रशंसां नाऽकरोत्कवेः ॥ १६ ॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि श्रीसखाधीनं विवेद नृपतिं तदा ॥ १७ ॥ लोकोक्त्या सचित्रं तं च, विज्ञाय गृहिणीवशम् ॥ भेजे लक्ष्मीवत स्वार्थ सिद्धयै वररुचिर्द्विजः ॥ १८ ॥ तां तुष्टां स्तुतिभिश्चैवं ययाचे स महाकविः ॥ मत्काव्यं
गिरा राज्ञः पुरो मन्त्री प्रशंसतु ॥ १९ ॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मन्त्रिणे सोऽपि, तदाकर्ण्याऽब्रवीदिति ॥ २० ॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः करिष्ये तदपि प्रिये ! ॥ २१ ॥ प्रतिपद्येत्यगाद्भूप- सभां सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि नृपं तुष्टाव पूर्ववत् ॥ २२ ॥ सुतिप्रान्ते च भूपेना-मात्यवक्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥ २३ ॥ नृपोऽथ तस्मै दीनारा - नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ २४ ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥ २५ ॥ ध्यात्वेति नन्दभूपाल - मवादीदिति धीसखः ॥ खामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ २६ ॥ राजा जगाद काव्यानि वर्णितानि त्वयाऽस्य यत् ॥ ततोऽस्मै दीयते नोचे- त्पूर्वं नाऽदामहं कथम् ? ॥ २७ ॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ तानि प्राशंसिषमहं, ततो भूपतिरित्यवक् ॥ २८ ॥ किं पुराणानि काव्यानि पठत्येष पुरो मम १ ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्वितम् ॥ २९ ॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः ॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः ॥ ३० ॥ तन्निशम्याऽथ साश्चर्यो, नृपो जयनिकान्तरे ॥ सप्ताऽपि मन्त्रिपुत्रीस्ताः समाहूय न्यवीविशत् ॥ ३१ ॥ अथाऽऽगतो वररुचिः, काव्यैस्तावद्भिरुत्तमैः ॥ तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥ ३२ ॥ राजादेशात्सभामेत्य, तथैव कथयच सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ॥ ३३ ॥ सर्षा अध्येवमूचुस्ता - स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ ३४ ॥ गङ्गास्रोतोजले यत्रं, चक्रे वररुचिस्ततः ॥ अष्टाप्रशतदीनार - ग्रन्थिकां तत्र च न्यधात् ॥ ३५ ॥ प्रातश्च जाह्नवीं स्तुत्वा ऽङ्घ्रिणा यत्रमचीचलत् ॥ दीनारग्रन्थिरुत्पुत्य, न्यपतत्तत्करे तदा ॥ ३६ ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा - नस्मै दत्ते स्तुता सती ॥ ३७ ॥ जनोत्त्या तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रातर्द्रक्ष्यामो ऽदः स्वयं वयम् ॥ ३८ ॥ इत्युक्त्वा स्वगृहं गत्या, मन्त्री प्रेपीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥ ३९ ॥ तदा चाष्टोत्तरशत- दीनारग्रन्थिकां स्वयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं वररुचिर्न्यधात् ॥ ४० ॥ वलितश्च ततः सद्यो, जगाम निजधाम सः ॥ आदाय ग्रन्थिकां तां च, चरोऽदान्मन्त्रिणे रहः ॥ ४१ ॥ छन्नरक्षित दीनारग्रन्थिना मन्त्रिणा समम् ॥ प्रातः पौरपरीतोऽगा-द्भूजानिरथ जाह्रवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिदृक्षं वीक्ष्य भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारंभे, गङ्गां स्तोतुं विशेषतः ॥ ४३ ॥ स्तुतिप्रान्ते च पादाभ्यां विप्रो यत्रमचीचलत् ॥ दीनाग्रन्थिका सातु, नोत्लुत्याऽऽगात्करोदरे ॥ ४४ ॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते १ ॥ ४५ ॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः ॥ तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥ ४६ ॥ खां प्रवर्धयितुं ख्यातिं जनं वञ्चयितुं घनम् ॥ सायमत्र धनं क्षिप्त्वा प्रातर्गृह्णात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भे, मन्त्रिणोक्ते नृपादयः ॥ अयं महाधूर्त्त इति, तं निन्दन्तो गृहं ययुः ॥ ४८ ॥ [ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा - द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन मन्त्रिणा ॥ तद्यथाशक्त्यहमपि प्रतिकुर्वेऽस्य किञ्चन ॥ ५० ॥ ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानैस्तद्दासीं, वशीचक्रे स काञ्चन ॥ ५१ ॥ मत्रिगेहस्वरूपं तं पृच्छन्तं साऽन्यदेत्यवकू ॥ अस्ति श्रीकवीवाहः, प्रारब्धोऽमात्यसद्मनि ॥ ५२ ॥ तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥ ५३ ॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः ॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥ ५४ ॥ " यत्कर्त्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥” प्रति