________________
उत्सराप्ययनसूत्रम्
॥२९॥ निपतन्तमधोमुखम् ॥ अहंदत्तः कचिचैत्ये-ऽद्राक्षीदिव्यानुभावतः ॥ १०३ ॥ ततः स विस्मयामर्ष-प्रकर्षावेशस
लः ॥ अमुना वाक्यबाणेन, मुखचापमयोजयत् ॥ १०४ ॥ यथा यथाऽर्च्यते लोकै-य॑न्तरोऽसौ तथा तथा ॥ पतत्यधोमुखो नीचै-रुचैः संस्थापितोऽपि यत् ॥ १०५॥ तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले ॥ इत्यूपानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ १०६ ॥ [ युग्मम् ] यदुचैः संयमस्थाने, स्थापितोऽपि पुनः पुनः ॥ पूज्यमानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ॥ १०७ ॥ तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽकयोऽतिसम्भ्रान्तो-ऽर्हहत्तः पृष्टवानिति ॥१०८॥ भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच तम् ॥ १०९ ॥ शृणु भ्रातः ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ॥ ११०॥ भवत्सहोदरत्वेनो-त्पन्नं व्युत्वा त्रिविष्टपात् ॥ बोधयेजैनधर्म म प्राप्तोऽपि सुरालयम् ॥ १११ ॥ इति त्वदुक्तं च मया, तदासीत्स्वीकृतं यतः ॥ त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगमं ततः ॥ ११२ ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महहत्तोऽब्रवीदिदम् ॥ ११३ ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः? ॥ ततो देवस्तमादाय, ययौ वैताढ्यपर्वतम् ॥ ११४ ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जरः ॥ तन्नामाकं समाकृष्य, पुष्करिण्या अदर्शयत् ॥ ११५ ॥ तद्वीक्ष्य खाभिधानाङ्क, जातिस्मरणमाप सः॥ लब्धबोधिस्ततो भाव-संयमं प्रत्यपद्यत ॥ ११६ ॥ स्थापयित्वेति तं धर्मे, स्वस्थानं त्रिदशो ययौ ॥ अर्हहत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ ११७ ॥ प्राप्यबोधममरादिति यद्व-संयतोऽरतिपरीषहमेषः ॥ सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः॥ ११८॥ इत्यरतिपरीषहे अर्हहत्तमुनिकथा ॥७॥ उत्पन्नसंयमारतश्च स्त्रीमिः प्रार्थ्यमानस्य तदभिलाषः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ।
__ जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥ १६ ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात्, ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिजया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः, 'सुकडंति' सुष्ठुकृतं 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याहमूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥नो ताहि विणिहणेज्जा, चरेजत्तगवेसए ॥१७॥
व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव तामिः स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाहचरेद्धर्मानुष्ठान सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७ ॥ उदाहरणश्चात्र, तथाहि
उदायिभपोपजेऽभत. पाटलीपत्रपत्तने ॥ नन्दवंशे कृतानन्दो. नवमो नन्दभपतिः ॥॥ कल्पकान्वयजोडनल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाहो, मत्री जिष्णोरिवाङ्गिरा ॥२॥ तस्य लक्ष्मीवती पत्नी, विष्णोलक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः ॥ ४॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारद्वयाऽन्या, अप्येवं जगहु तम् ॥५॥ यावद्रेणा सप्तकृत्वः, काव्याधाकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, खामिधानमिवोचकैः ॥६॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥७॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः ॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरिप्रदानस्तां, स खीचके कलानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः॥९॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽमवघेन, कोशा वारवधूरपि ॥१०॥ तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः ॥