________________
॥२८॥
उत्तराप्ययनसूत्रम् -गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥३२॥ मां च जातं खसात्कृत्वा, जैन धर्म विबोधयः ॥ न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३॥ किञ्च वैताट्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामा, कुण्डलद्वितयं मया ॥६४ ॥ बहूपायैरनुत्पन्न-प्रतिबोधस्य से पुनः ॥ तदर्शनीयं भवता, खर्गलोकमुपेयुषा ॥६५॥ इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, खस्थः स्वस्थानमासदत् ॥ ६६ ॥ स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ ॥ तस्याचाभूदकालेऽपि, तदाम्रफलदोहदः ॥ ६७ ॥ तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृतदेवगीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ ६९ ॥ सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥७॥ ततः स मूकस्तं बाल-सोदरं लालयन् खयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ॥७१॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुचै-ररोदीन्न त्ववन्दत॥७२॥ नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य सः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥ ७३ ॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ ॥ न सेहे कुग्रहग्रस्त, इव मत्रितगुग्गुलोः॥ ७४ ॥ परिश्रान्तस्ततो मूकः, प्राब्राजीत्सा धुसन्निधौ॥प्रपाल्य संपमं वर्ग, गतः प्रायुक्त चाऽवधिम् ॥७५॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व
१ उष्ट्रान्महिष इव ॥ भववाक्यं चा-स्मार्षीत्वीकृतमात्मना ॥७६ ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णदृतिप्राय, प्रोचैश्चक्रे जलोदरम् ॥ ७७॥ उत्थातुमपि तद्भारा-दर्हद्दत्तः शशाक न॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः॥७८॥ सद्यः समग्ररोगान्तं, करोमीत्युशकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥७९॥ अर्हद्दत्तोऽथ तं वीक्ष्य, सद्यः माह कृताञ्जलिः॥ नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ ८॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ ८१॥ किन्तु भेषजशस्त्रादे- रसुं कोत्थलकं मम ॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ ८२॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ॥ ८३॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः॥ ८४ ॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥ ८५॥ अर्हहत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया शश्वद्वहिष्यते ? ॥८६॥ वाग्बद्धश्च कथङ्कारं, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीवधानतकन्धरः॥ ८७॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान्॥ तदा तं वीवधोद्विम-मेवं मायाभिषर जगौ ॥ ८८ ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥स निशम्येति
१ अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां घातूनां विकल्पितेट्त्वं [ धूगौदितः-४-४-३८ ] इति सूत्रे 'बहुलमेकेषां विकल्पः इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः॥ तद्वाणी-मित्यभाणीद्भरादितः ॥ ८९ ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुञ्जीभूतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्रतम्॥९०॥ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, खयं खलॊकमीयिवान्॥११॥ गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगान्निजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तंप्रव्रज्यापरिच्युतम् ॥९२॥ ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः ॥ ९३ ॥ मूकदेवे गतेऽत्याक्षी-दहहत्तः पुनर्बतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥ ९४ ॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः ॥ तत्स्थिरीकरणायाऽस्था-चित्यं तत्पार्श्व एव सः॥ ९५॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलदामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षंमन्यस्ततो देव-महहत्तोऽब्रवीदिदम् ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्कथम् ? ॥ ९७ ॥ देवोऽवक् वेत्सि यधेत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ॥९८ ॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो प्रजन् ॥ मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ ९९ ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥ १०॥ स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः १ ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ १०१॥ तदाकाप्यबुद्धेन, तेन साधं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ १०२ ॥ व्यन्तरं पूजितं सन्तं,
१ योग्यम् ॥