________________
उतराष्ययनसूत्रम्
॥ २७ ॥
ततो वाचंयमः प्रोचे, सम्यग् वादित्रवादनम् ॥ रे ! कोलिकौ ! न जानीथो, युवा जडशिरोमणी ॥ १९ ॥ तदाकर्ण्यातिरुष्टौ तौ मुनिं हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ २० ॥ कुट्टयित्वा तदङ्गानि, सन्धिभ्यश्चोदतारयत् ॥ मुनिना इन्यमानौ तु तौ चक्रन्दतुरुच्चकैः ॥ २१ ॥ श्रुत्वाऽऽक्रन्दांस्तदा दध्यौ, बहिः स्थस्तत्परिच्छदः ॥ हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ॥ २२ ॥ ऋषिद्विषोस्तयोरेवं, शिक्षां दत्वा गते मुनौ ॥ साशकस्तत्परिकर - स्तयोः पार्श्वमगात्ततः ॥ २३ ॥ निश्चेष्टौ काष्टवद्वक्तु- मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्षमाणौ सर्व परिच्छदम् ॥ २४ ॥ तौ समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः ॥ न्यवेदयदुदन्तं तं द्रुतं नृपपुरोधसोः ॥ २५ ॥ [ युग्मम् ] तदाकर्ण्यातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयोर्दुरवस्थां तां तत्रायाताषपश्यताम् ॥ २६ ॥ परीवारगिरा ज्ञात्वा मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्थे तौ, क्षिप्रं क्ष्मापपुरोधसौ ॥ २७ ॥ इत्यूचतुश्व नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः ! प्रसीदतेदानीं, पुत्रौ जीवयताऽऽवयोः ॥ २८ ॥ आर्यराधा जगुभूप !, वेद्मयहं नात्र किञ्चन ॥ प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम् ॥ २९ ॥ भूपोऽप्युत्थाय तत्पार्श्व, गत्वा नत्वा च तं मुनिम् ॥ उपाविशत्पुरस्तस्य प्रत्यभिज्ञातवांश्च तम् ॥ ३० ॥ एवञ्चोवाच हे भ्रातः !, स्वभ्रातृव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥ ३१ ॥ यत्त्वं स्वपुत्रभाण्डाना -मपि साधु विडम्बनाम् ॥ शिक्षां दातुं न शक्नोषि तत्सौराज्यं धिगस्तु ! ते ॥ ३२ ॥ राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः! ॥ ३३ ॥ अथाऽभ्यधान्नृपो भ्रात - र्मन्तुमेनं क्षमत्र मे ॥ अनुकम्पख चेदानीं, तौ बाली दुर्दशां गतौ ॥ ३४ ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सज्जयामि द्राकू, कुमारौ नान्यथा पुनः ॥ ३५ ॥ पुरोहितेन राज्ञा च प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा -ऽऽदानं स्वीचक्रतुस्तदा ॥ ३६ ॥ ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः ॥ पश्चात्तौ सज्जयामास, दीक्षयामास च द्रुतम् ॥ ३७ ॥ तत्र पृथ्वीपतेः पुत्रो, निशङ्कोSपालयद्व्रतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ॥ ३८ ॥ प्रद्वेषादिति दध्यौ च स दीक्षां पालयन्नपि ॥ अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ ३९ ॥ ततो दुर्लभबोधित्वं, पुरोधः सूनुरार्जयत् ॥ क्रमाद्वावपि तौ कालं कृत्वा देवौ बभूवतुः ॥ ४० ॥ इतश्च पुर्या कौशाम्त्र्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ॥ ४१ ॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः ॥ निजघ्ने तत्सुतैरेव तस्य श्राद्धदिनेऽन्यदा ॥ ४२ ॥ ततो रेसावशावेणी - कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्वदात्मनः ॥ ४३ ॥ भ्रमन्नयं गृहान्तर्नो, मावधीदिति चिन्तिभिः ॥ सुतैरेव हतः सोऽहिः, स्वसूनोस्तनयोऽभवत् ॥ ४४ ॥ प्राग्वज्जातिस्मृतिं प्राप्तो, मूकत्वं खीचकार सः ॥ खुषामम्बां सुतं तातं कथं ? वच्मीति चिन्तयन् ॥ ४५ ॥ उपायैः प्रचुरैर्मातापितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६ ॥ अशोकदत्त इत्यासी - तस्याह्ना तातनि
१ रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥
र्मिता ॥ लोकास्तु तजल्पंत - मजल्पन्मूकनामकम् ॥ ४७ ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञानधरास्तत्र, स्थविराः समवासरन् ॥ ४८ ॥ तैश्च मूकगृहे श्रेष्ठौ श्रमणौ प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ॥ ४९ ॥ “तावस ! किमिमिणा ? मूअ - वएण पडिवज्ज जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स तोति ॥ ५० ॥" श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् ॥ एतद्युवां कथं वित्थ-स्ततस्तावित्यवोचताम् ॥५१॥ इहोद्याने स्थिता अस्म-गुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमगुरून् ॥ ५२ ॥ श्रुत्वा तहेशनां पाप - पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३ ॥ इतश्च जातिमदकृ-त्पुरोहितसुतोमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ ५४ ॥ अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्व- मसि दुर्लभबोधिकः ॥ ५५ ॥ सुरोऽपृच्छत्पुनः सार्व, कोत्पत्स्यऽहमितश्रयुतः ॥ जिनो जगौ त्वं कौशाम्oयां, मूकभ्राता भविष्यसि ॥ ५६ ॥ धर्मावातिश्च ते मूका -द्भाविनीति निशम्य सः ॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ ५७ ॥ दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे खर्गात्परच्युतः ॥ ५८ ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥ ५९ ॥ आम्राणि याचते सा च यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ ६० ॥ गर्भस्थमङ्गजमिमं मातर्मं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते ॥ ६१ ॥ इदं तस्यां प्रपन्नायां समानीय ततो