________________
372 उत्तराध्ययन दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अहेव उ समासओ ॥३॥
व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इय गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृहव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृप्रा. हकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्वध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूत्तौं, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवातान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमूलम्-नाणावरणं पंचविहं, सुअं आभिणिवोहि । ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥
व्याख्या-ज्ञानावरणं पञ्चविधं, तञ्च कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेव पयला, निहानिहा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ
नायबा ॥ ५॥ चक्खुमचक्खुओहिस्त, दसणे केवले अ आवरणे । एवं तु नवविगप्पं
नायवं दसणावरणं ॥६॥ व्याख्या-निद्रादीनां खरूपं त्वेवम्-“सुहपडिवोहा निदा १ निहानिहा य दुक्खपडिबोहा २ । पयला ठिओयविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअस्थकरणी, थीणद्धी अद्धचक्किअद्धवलत्ति ५॥" इदं निद्रापञ्चकम् ॥ ५॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्वाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुदर्शने चक्षुषा रूपसामान्यग्रहणे । अचडूंपीति नत्रः पर्युदासत्वाचक्षुःसदृशानि शेपेन्द्रियमनांसि तदर्शने तेषां खखविपयसामान्यावबोधे । अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतष चक्षुर्दर्शनादिविपयत्वाचतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुदेशनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६ ॥ मूलम्-वेअणि पिअ दुविहं, सायमसायं च आहि। सायस्स उ वह भेआ, एमेवासायस्सवि॥७॥ ___ व्याख्या-वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥७॥ मूलम्-मोहणिजंपि दुविहं, सणे चरणे तहा। दंसणे तिविहं तुतं, चरणे दुविहं भवे ॥ ८॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमा
रेत्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविपयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविपयं द्विविधं भवेत ॥८॥ दर्शनमोहनीयवैविध्यमाहमूलम्-सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिणि पयडीओ, मोहणिजस्स दसणे
व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूत्तौं, मिध्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्ववुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविपयस्य ॥९॥ मूलम्-चरित्तमोहणं कम्म, दुविहं तु विआहिअं । कसायवेअणिजं तु, नोकसायं तहेव य ॥१०॥ ___ व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कपायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कपायवेदनीयं, चः समुच्चये, नोकपाय