________________
373
मिति प्रक्रमानोकषायवेदनीयं । तत्र नोकपायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वेद्यते । तथैव चेति समुचये ॥ १० ॥ अनयोर्भेदानाह
उत्तराध्ययन
मूलम् -- सोलसहि भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥
व्याख्या - 'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कषायजं "जं वेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान [प्रत्याख्यानावरण] [संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म नोकपायजं नोकपायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरसरतिभयशोकजुगुप्सारूपं वेदश्व सामान्यविवक्षया एक एवेति । नवविधं तु तदेव पट्कं वेदत्रयसहितमिति ॥ ११ ॥
मूलम् -- नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउविहं ॥ १२ ॥ व्याख्या -- 'नेरइअतिरिक्खाउंति' आयुः शब्दस्य प्रत्येकं योगान्नैरयि कायुस्तिर्यगायुः, शेषं व्यक्तम् ॥ १२ ॥ मूलम् —— नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भैया, एमेव असुहस्सवि ॥१३॥
व्याख्या - नामकर्म द्विविधं कथमित्याह - शुभमशुभं च आख्यातं शुभस्य बहवो भेदा एवमेवाशुभस्यापि । तत्रोत्तरमेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा - नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूर्व्यो १९ अगुरुलघु २० पराचातं २१ उच्छ्रासं २२ आतपो २३ दूधोती २४ प्रशस्त विहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुखरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि -नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्णानि संहनानि पञ्च ११ संस्थानान्यपि प्रथमवर्णानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूर्व्यो २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । अत्र बन्धन संघातनानि शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तसंख्याविरोधः ॥ मूलम् - गोअकम्मं दुविहं, उच्चं नीअं च आहिअं । उच्चं अट्ठविहं होइ, एवं नीअंपि आहिअं ॥ १४ ॥
व्याख्या - गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोच्चमुच्चैर्गोत्रमष्टविधं भवति, एवमष्टविधं नीचमध्याख्यातं । अष्टविधत्वं चानयोर्वन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति ॥ १४ ॥
मूलम् - दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण विआहिअं ॥१५॥
व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे व प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्यगृहरुयादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याम्यादक्षेपि याचके लाभो न स्यात् २ | भोगान्तरायं तु येन सम्पद्यमाने प्याहारमात्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ॥ १५ ॥ एवं प्रकृतयोऽभिहिताः सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाह
मूलम् - आओ मूलप्पयडीओ, उत्तराओ अ आहिआ । पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण १६
व्याख्या -- एता मूलप्रकृतय उत्तराधेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामंत्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति' क्षेत्रकालौ च, भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ १६ ॥ तत्रादौ प्रदेशाप्रमाह