________________
371
उत्तराध्ययन व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यश्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया च कं गुणमवाप्नोतीत्याह
मूलम्-सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए ।
अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मवन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युको ध्यानसमाधियुक्तः, आयुपः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च याशः स्यात्तदाह
मूलम्-सो तस्स सबस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं।
दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयस्थी ॥ ११०॥ __ व्याख्या-स मोक्ष प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्व्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११ ॥ अध्ययनार्थोपसंहारमाह
मूलम्-अणाइकालप्पभवस्स एसो. सवस्स दक्खस्स पमोक्खमग्गो।
विआहिओ जं समुवेच्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ॥ १११ ॥ व्याख्या-अनादिकालप्रभवस्य एपोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक्प्रतिपद्य सत्त्वाः क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः॥१११॥ इति ब्रवीमीति प्राग्वत् RKa..xxxx...x.x.x.x. xxx.x Kinds Kixxx XXXCHIKAR.K.
xxxxxxxxXEXY इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-6 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥
&KHADAIXxnxx Kamxxx.ki.ki.XNXKarne KIYAXX.
KAJOKERAKHPrama
॥ अथ त्रयस्त्रिंशमध्ययनम् ॥
-00-00
॥ ॐ ॥ उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्--अट्ट कम्माई वोच्छामि, आणुपुविं जहकमं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥
व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूळ परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह-यथाक्रमं क्रमानतिक्रमेण । यैर्वद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिजं, दसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥
व्याख्या-ज्ञानस्य विशेपाववोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदात्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्सासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति