________________
370 उत्तराध्ययन व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्प शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीसभिलापुकः सन् , तथा पश्चादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात अन्यथा वा । तपः प्रभावमिहैवामर्षोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यत ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपचते, इन्द्रियाणि चौरा इव धर्मधनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाषवान्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च शुषतोऽयमाशयः तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ १०४ ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह
मूलम्-तओ से जायंति पओअणाई, निम्मजिउं मोहमहण्णवमि ।
सुहेसिणो दुक्खविणोअणट्ठा, तप्पञ्चयं उजमए अ रागी ॥ १०५ ॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निमजयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनैर्मोहान्धी निमम इष जन्तुः क्रियते तादृशानीत्यर्थः, स पुत्पन्नविकारतया मूढ एष स्यात् , विषयसेवाद्यैश्च प्रयोजनैरत्यर्थं मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थ तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्मामिलापिणो दुःखविनोदनार्थ सुखैपी सन् दुःखक्षयार्थमेव हि विषयसेवादी प्रवर्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उघ. उछत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थहेतुत्वात् ॥ १०५ ॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह
मूलम्-विरजमाणस्स य इंदिअत्था, सदाइया तावइअप्पयारा ।
न तस्स सधेवि मणुषणयं वा, निबत्तयंती अमणुषणयं वा ॥ १०६ ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विपतच चः पुनरपे ततो विरज्यमानस्साद्विषतब पुनरिन्द्रियाः , तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराधा मेदा येषां ते तावत्प्रकारा पहुनेदा इत्ययः, न तस्स मर्त्यस्य सर्वपि मनोज्ञतां वा निर्वर्त्तयन्ति जनयन्ति अमनोज्ञता था किन्तु रागद्वेषयत एव, खरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । यदुक्तमन्यैरपि-"परिप्राटकामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिम्रो विकल्पनाः ॥ १॥" ततो वीतरागद्वे. षस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्तेनैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह
मूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवटिअस्स ।
अत्थे अ संकप्पयओ सओ से, पहीअए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या-एवमुक्कनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा बव्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सजायते समता माध्यस्थ्यमितियोगः । अर्थाचेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतच शुमध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ १०७ ॥ ततः स किं करोतीत्याह
मूलम्–स वीअरागो कयसवकिञ्चो, खवेइ नाणावरणं खणेणं ।
तहेव जं दसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥
८.