________________
उत्तराध्ययन
30 दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावा
गुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव त्तए जस्स कए ण दुक्खं ॥ ९७ ॥ एमेव भावमि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ९८॥ व्याख्या-मावेऽनभीष्टमारणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्स नामापीत्यादिकम् ॥१९॥
मूलम्-भावे विरत्तो भणुओ विसोगो, एएण दुक्खोहपरंपरेण।
न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥६॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टसप्तति सूत्रावयवार्थः ॥१९॥ उक्तमेवाथै संक्षेपेणाह
मूलम्-एविंदियत्था य मणस्स अस्था, दुक्खस्स हेऊ मणुअस्स रागिणो ।
ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ १० ॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेपिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेपस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभाषः १ उच्यते
मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति ।
जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ॥१०१ ॥ व्याख्या-न कामभोगाः समतां रागद्वेपाभावरूपां प्रति हेतुत्वमिति शेपः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपि रागद्वेपवान् स्यात् । न चापि भोगाः कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेपहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेप्येय रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति रागद्वेषरहितस्तु समतामिति भावः ॥ १०१ ॥ किं रूपां विकृतिमुपैतीत्याहमूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरई रइं च । हासं भयं सोग पुमिथिवेअं
नपुंसवेअं विविहे अ भावे ॥ १०२ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। __ अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे बइस्से ॥ १०३ ॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जगप्सां अरति अस्वास्थ्यं रति विपयासक्तिंहासं भयं शोक पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुपाभिलापलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्पविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेपवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुवन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, ह्रीमान् लज्जावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोपमिहैवानुभवन् परत्र च तद्विपाकभतिकटुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तदोपदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२ ॥ १०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह
मूलम्-कप्पं न इच्छेज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं ।
एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥