________________
उत्तराष्ययन
345 द्रव्यसानिध्यनिर्मितं जीवव्यापार निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईषदिति खल्पप्रयलेन पञ्चानां ह्रखाक्षराणां अ-इ-उ-क-ल-इत्येवंरूपाणां उबारो भणनं तस्याद्धा कालो यावता ते उचा. यन्ते सा ईषत्पञ्चहखाक्षरोधारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनियत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः।हखाक्षरोधारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति । ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माइं चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्प. जाणाहिति विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः बहवचनं चात्र व्यत्य. पेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपलिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्दतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीयोऽयगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊईमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण पक्रगतिलक्षणविग्रहाभावेन, अन्ययव्यतिरेकाभ्यामुक्तोर्थः स्पष्टतरो भवतीति अजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुको ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्राथेः ॥ ७२ ॥ ७४ ॥७३॥७५ ॥ उपसंहासेमाह मूलम्-एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आपविए
पपणविए परूविए निर्देसिए उवदंसिएत्ति बेमि ॥ ७६ ॥ व्याख्या-एपोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आपवि. एत्ति' आपत्वादाख्यातः सामान्ययिशेपैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति प्रवीमि इति प्राग्वत् ॥ ७६ ॥
GODAVARATALABORARMATMALOR जा इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ २९ ॥ 'S CaS
:
ES:S:TaSERS2 ॥ अथ त्रिंशत्तममध्ययनम् ॥
॥ॐ॥उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्रायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्खरूपमत्रोच्यते, इतिसम्बन्धस्यास्पदमादिसूत्रम्मूलम्-जहा उ पावगै कम्मं, रागहोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥
व्याख्या-यथा येन प्रकारेण तुः पूतौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणा
सवो ॥ २॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अ निस्सल्लो, जीवो
होइ अणासवो ॥३॥ व्याख्या स्पष्टे ॥ २ ॥३॥ ईशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह