________________
3414
उत्तराध्ययन व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिथ्यादर्शनानि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्यि आनुपूर्व्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्घातयति क्षपयति, तत्क्षपणाक्रमवायम्-पूर्वमनन्सानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मित्रं सम्यक्त्वदलिकं च, तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्वार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ घोत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानडि १६ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाप्टकावशिष्टं क्षपयित्वा क्रमात नपुंसकवेदं स्त्रीवेदं हास्यादिषहूं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री पण्डो पा तदा खखवेदं प्रान्ते अपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोमान् , क्षपणाकालश्च प्रत्येकं सर्वेषां या अन्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्वासंख्यभेदत्वात् । इत्थं मोहनीय क्षपयित्वान्तर्मुहर्त यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पंचेत्यादि-पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात् , कृत्स्नं कृत्स्नार्थग्राहकत्वात् , प्रतिपूर्ण सकलखपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात् , निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति कचिदप्यज्ञानतिमिराभावात्, विशुद्धं सर्वदोपाभावात्, लोकालोकप्रभावकं तत्खरूपप्रकाशकत्वात् , केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोयाक्कायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पर्थिग्रहणं, तिष्ठतोऽपि सयोगस्थासम्भवात् , कर्म बनाति । तत्कीदशमित्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं-"जोगा पयडिपएसं, ठिइ अणुमागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण परिशटितं ततश्च तद्वद्धं जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं मसूणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयन तस्स निधत्तनिकाचितावस्थयोरभाषमाह । उदीरितमुदयप्रासं उदीरणायास्तत्रासम्भवात् , वेदितं तत्फलसुखानुभवनेन निर्माण क्षयमुपगतं, 'सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादायकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य. तथाविधपरिणामासम्भवात्, एतच्च एवंविधविशेषणान्वितं सातकर्मासौ वभाति, तस्य तदन्यवन्धासम्भवात् ७१॥७३॥ स चायुषः प्रान्ते शैलेशी गत्वाऽकमी स्यादिति शैलेश्यकर्मताद्वारे अर्थतो व्याख्यातुमाहमूलम् -अहाउअं पालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ
सुक्कज्झाणं झिआयमाणे तप्पढमयाए मणजोगं निरंभइ निरंभइत्ता वइजोगं निरंभइ निरंभइत्ता आणापाणनिरोहं करेइ करित्ता ईसिं पंचहस्सक्खरुच्चारधाए अणं अणगारे समुच्छिन्नकिरिअं अनिअघि सुक्कज्झाणं झियायमाणे वेअणिजं आऊअं नाम गोत्तं च एए चत्तारिवि कम्मसे जुगवं खवेइ ॥७२॥७४॥ तओ ओरालिअकम्माइं च सवाहि विष्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उर्ल्ड एगसमएणं अविग्गहेणं तत्थ गंता
सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥७३॥७५ ॥ व्याख्या-अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्वकोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रिय अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य पाग्योगं भाषा