________________
339 उत्तराध्ययन बनाति, सकलवन्धहेतूनामुच्छेदात् । पूर्ववद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ॥ ३७ ॥ ३९॥ योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम्-सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेड,
सिद्धाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८॥४०॥ ___ व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः “न कृष्णो न नीलः" इत्यादयो यस स सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीयो लोकाग्रभवत्वालोकायं मुक्तिपदमुपगतः परमसुखी भवति ॥ ३८ ॥४०॥ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाहमूलम्-सहायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खाणेणं रागीभावं जणयइ, रागी
भावभूए अ जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमब
हुले संवरबहुले समाहिए आवि भवइ ॥ ३९ ॥ ४१॥ व्याख्या-सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं एकत्वं भृतः प्राप्तश्च जीव ऐकायं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझंझोऽवाकलहः, अल्पकपायोऽकपायः, 'अप्पतुमंतुमेत्ति अल्पमविद्यमानं त्वं त्वमिति-खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोपीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः संवरवहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९ ॥४१॥ ईदृशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणेणं भंते ! जीवे किं जणयइ भत्तपञ्चक्खाणेणं अणेगाई भवसयाई निरंभइ ४०
व्याख्या-भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पस्वापादनात् ॥ ४०॥ ४२ ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम्-सम्भावपञ्चक्खाणेणं भंते! जीवे किं जणयइ ? सम्भावपञ्चक्खाणेणं अनिअर्टि जणयइ, अनि
अट्टि पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ। तंजहा-वेअणिजं, आउअं, नाम,
गोत्तं। तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुःक्खाणमंतं करेइ ॥४१॥४३॥ व्याख्या-सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन-न विद्यते निवृत्तिर्नित्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यगेदस्तं जनयति, तं प्रतिपन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः, क्षपयति ॥४१॥ ॥ ४३ ॥ सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाहमूलम्-पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लापविअं जणयइ, लहुब्भुए
अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सवपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि
भवइ ॥ ४२ ॥ ४४॥ व्याख्या-प्रतिः सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं वेपो यस्य स प्रतिरूएस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां, द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिवद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात् , प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् , विशुद्धसम्यक्त्वः क्रिया सम्यक्त्वविशोधनात् , 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव सम